Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 248
________________ परि. १ सू. १८} स्याद्वादरत्नाकरसहितः २३५ चैतन्यसंसर्गाद्धि चेतनो भोक्तृत्वसंसर्गारोक्का औदासीन्यसंसर्गादुदासीनः शुद्धिसंसर्गाद्बुद्धो न तु तत्स्वभावादित्यपि वक्तुं शक्यत एव । अनुभवबाधाश्चोभयत्रापि तुल्यः । न खलु ज्ञानस्वभावविकलोऽयं कदाचनाप्यनुभूयते । चैतन्यादिस्वभावस्येव ज्ञानस्वभावस्यापि तत्र संवेद्यमानत्वात् । तथा च ज्ञानस्याचेतनत्वसमर्थनार्थं प्रधानपरिणामत्वादिति साधनं यदुक्तं तदप्यसिद्धमेव । आत्मपरिणामत्वेन ज्ञानस्य समर्थितत्वात् । न चात्मनोऽनित्यज्ञानपरिणामात्मकतायामनित्यत्वं प्रसज्यत इति वाच्यम् । अव्यक्तस्याप्यनित्यव्यक्तात्मकतायामनित्यत्वप्रसक्तेः । अथ व्यक्ताव्यक्तयोरव्यतिरेकेऽपि व्यक्तमेवानित्यं परिणामत्वान्न पुनरव्यक्तं परिणामित्वादित्युच्यते । तर्हि ज्ञानात्मनोर- १० व्यतिरेकेऽपि परिणामपरिणामिभावाज्ज्ञानमेवानित्यमस्तु नत्वात्मा । आत्मनोऽपरिणामित्वे तु प्रधानेऽपि तदस्तु । व्यक्त्यपेक्षया परिणामि प्रधानं न शक्त्यपेक्षया सर्वदा स्थास्नुत्वादित्यभिधाने स्वात्माऽपि तथाऽस्तु विशेषाभावात् । यदि चात्मनः परिणामित्वं नाभ्युपगम्यते।। तदार्थक्रियाकारित्वाभावतस्तुरङ्गमशङ्गवदसत्त्वापत्तिः । किं चाय १५ प्रथमो बुद्धिरूपः परिणामः प्रकृतेः कुतः स्यात् । स्वभावतः पुरुषार्थकर्त्तव्यतातोऽदृष्टाद्वा । यदि स्वभावतः तर्हि सदाऽस्य सत्त्वप्रसङ्गः स्वभावस्य सदा सत्त्वसम्भवात् । यत्स्वाभाविकं न तत्कादाचित्कं यथा त्रिगुणात्मकत्वं स्वभाविकश्च प्रकृतेराद्यो बुद्धिपरिणाम इति । अथ पुरुषार्थकर्त्तव्यतातः आत्मनो विभागो मया सम्पादनीय २० इत्यनुसन्धाय प्रकृतिर्महदादिभावेन परिणमतीति । तदपि भाग्यहीनराज्यमनोरथस्थानीयम् । प्रथमसृष्टिकालेऽनुत्पन्नबुद्धिवृत्तेस्तस्याः पुरुषार्थो मया सम्पादनीय इत्यनुसन्धानानुपपत्तेः । तथाहि यदाऽसावनुस्पन्दबुद्धिवृत्तिस्तदाऽनुसन्धानशून्या यथा संहतसृष्टयवस्थायाम् । अनु १ 'समर्पितत्वात् ' इति म. पुस्तके पाठः । २ 'वात्मापि ' इति म. पुस्तके पाठ । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274