Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 243
________________ २३० प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १८ मभ्युपगच्छामः किन्तु वस्तुव्यवसायिनीम् । न चात्र विषयभेदाज्ञानभेदकल्पनोपपत्तिमती । समानेन्द्रियग्राह्ये योग्यदेशावस्थितेऽर्थे घटपटादिवदेकस्यादि ज्ञानस्य व्यापारविरोधात् । न च घटादावपि ज्ञानभेद इति. वाच्यम् । ज्ञानानां युगपद्भावानभ्युपगमात् । क्रमभावे च प्रतीतिविरोधः । ५ युगपद्भावाभ्युपगमे च विशेषणविशेष्यज्ञानयोः सव्येतरविषाणवत्कार्य कारणभावाभावः । ततो विशेष्यज्ञानं विशेषणविशेष्योभयालम्बनमेव नतु विशेषणज्ञानेन जन्यमानत्वात् केवल विशेष्यालम्बनमिति । अपि च यदि विशेषणज्ञानं करणं विशेष्यज्ञानं तु ज्ञानक्रियोच्यते । तदापि विशेषणज्ञाने कस्य करणतां वक्ष्यसि । नहि तत्रापरं विशेषणज्ञानं करणमस्ति । अथास्त्येव दण्डादिज्ञाने दण्डत्वादिजातिज्ञानम्, दण्डत्वादिजातिज्ञाने तर्हि कतरत्कथयति।ततो न विशेषणविशेष्यज्ञानयोः करणक्रियात्वे वक्तव्ये किन्त्वेकज्ञानस्वरूप एव । अस्थास्त्वेवम्, न च विरोधस्तथाप्रतीतेः। कर्मत्वेनाप्यत एवाविरोधोऽस्तु । विशेषाभावात् । चक्षुरादिकरणं ज्ञानक्रियातो भिन्नमेवेति चेत्, न ज्ञानेनार्थं जानामीत्यपि १५ प्रतीतेः । ज्ञायतेऽनेनेति ज्ञानं चक्षुराद्येव ज्ञानक्रियायाः साधकतम करणमिति चेत्, न तस्य साधकतमत्वनिराकरणातंत्रज्ञानस्यैव साधकतमत्वोपपत्तेः । ननु यदेवार्थस्य ज्ञानक्रियायां ज्ञानं करणं सैव ज्ञानक्रिया तत्र कथं क्रियाकरणव्यवहारः प्रातीतिकः स्यात् । विरो धादिति चेत्, न कथञ्चिद्भेदात् । प्रमातुरात्मनो हि वस्तुपरिच्छित्तौ २० साधकतमत्वेन व्यापृतं रूपं करणम् । निर्व्यापारं तु क्रियोच्यते स्वातन्त्र्येण पुनर्व्याप्रियमाणः कर्त्तात्मेति । तेन ज्ञानात्मक एवात्मा ज्ञानात्मनाथ जानामीति कर्तृकरणक्रियाविकल्पः प्रतीतिसिद्ध एव । तद्वत्तत्र कर्मव्यवहारोऽपि ज्ञानात्मात्मनात्मानं जानातीति घटते । सर्वथा कर्तृकरणकर्मक्रियाणामभेदानभ्युपगमात् । तासां कर्तृत्वादि२५ शक्तिनिमित्तत्वात् कथञ्चिद्भेदसिद्धेः। ततो ज्ञानं येनात्मनार्थं जानाति १. हि कतमत्कथयसि' इति भ. म. पुस्तकयोः पाठः। २ 'तत्र' इति नास्ति म. म. पुस्तकयोः पाठः । ३. क्रियाकरणत्वं ' इति म. पुस्तके पाठः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274