Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 233
________________ प्रमाणनयतत्वालोकालङ्कारः [ परि. १ सू. १८ "वेद्यत्वप्रतिज्ञानात् । त्रिलोचनज्ञानस्य चास्मदादिज्ञानादतिशयोपेतत्वात् । न चातिशयोपेते प्रतीतं धर्ममतिशयापेतेऽपि प्रेरयन् परीक्षकतामास्कन्दति । समस्तार्थग्राहित्वस्यापि सकलज्ञानानां त्रिलोचनवत्प्रसक्तेः । नापि कालात्ययापदिष्टः, प्रत्यक्षागमाभ्यामनिराकृतगोचरत्वात् । ननु स्वव्यवसायिस्वरूपमर्थज्ञानं स्वसंवेदनप्रत्यक्षेणैवानुभूयते अतः प्रत्यक्ष विक्षिप्त पक्षनिर्देशानन्तरोपन्यस्तत्वेन कालात्ययापदिष्टतालिङ्गित एवायं हेतुरिति चेत्, तदनुचितम् । ज्ञानस्य स्वव्यवसायिस्वरूपत्वानुपपत्तेः । अर्थव्यवसायिस्वरूपत्वेनैव तस्यावस्थानात् । " अर्थग्रहणं बुद्धिचेतना " इत्यभिधानात् ग्रहणं पुनरस्य तगोचरतयो१० त्पन्नेनैकात्मसमवेतानन्तरज्ञानेन मानसाध्यक्षरूपेण । नन्वेवमर्थज्ञानतगोचरानन्तरज्ञानयोः क्रमेणोत्पन्नयोस्तथैवानुभवः किं न भवतीति चेत् । नैतद्वचनीयम् । अनयोः क्रमसमुत्पादेऽप्याशुवृत्तेः शतपत्रपत्रशतव्यतिभेदवद्यौगपद्याभिमानतः पार्थक्याननुभूतिसम्भवात् । अथार्थज्ञानस्य ज्ञानान्तरप्रत्यक्षतायां ज्ञानान्तरस्याप्यपरज्ञानप्रत्यक्षताप्रसक्तेर्दुर्निवारा१५ स्थानवस्थेति चेत् एतदप्यप्रातीतिकम् । अर्थज्ञानस्य द्वितीयेन ज्ञानेन ग्रहणादर्थसिद्धेर परज्ञानकल्पना नर्थक्येनानवस्थित्यभावात् । अर्थजिज्ञासायां ह्यर्थज्ञानमुपजायते ज्ञानजिज्ञासायां तु ज्ञाने । सा च ज्ञान जिज्ञासार्थज्ञानं यावद्भवतीति द्वितीयज्ञानोत्पत्त्यैव कृतार्थयति प्रमातारमित्यलं तृतीयादिज्ञानकल्पनया । तन्न कालात्ययापदिष्टताश्लिष्टता२० श्लिष्टमूर्त्तिरसौ हेतुः । नापि प्रकरणसमः । असम्भवत्परिपन्थिसाधनत्वात् । यस्य हि संशयबीजभूतं पक्षान्तरचिन्ताप्रवर्तकं साधनान्तरं सम्भवति स एव हेतुः प्रकरणसमः । न चात्र तदस्ति । अथ ज्ञानं स्वप्रकाशात्मकमर्थप्रकाशात्मकत्वात्प्रदीपवदित्येवंविधे परिपन्थिनि साधने जागरूके सति कथमिदमभिधीयतेऽसम्भवत्परिपन्थिसाधनत्वान्नं २५ प्रकरणसम इति चेत् । मैवम् | विचारभारासहत्वेनास्य साधनाभास I २२० ५ > १ कथम् इति प. पुस्तके पाठः । २ष्टिता ' इति नास्ति प. पुस्तके "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274