Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 231
________________ २१८ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १८ ज्ञानात्तदुत्पत्तिप्रतिज्ञानात् । नापि प्रकाशतायाः सकाशादर्थः समुत्पद्यते स्वसामग्रीतः प्रकाशतायाः पूर्वमप्यर्थस्योत्पन्नत्वात् । नपि संयोगेन प्रकाशताऽर्थेन सम्बद्धा । तस्य द्रव्यवृत्तित्वेनाद्रव्यरूपायां प्रकाशतायां सम्भवाभावात् । भवतु वा केनचित्सम्बन्धेन सम्बद्धाऽसौ, तथाप्यर्थ५ मात्रेणैषा सम्बद्धाऽर्थविशेषेण वा । अर्थमात्रेण सम्बन्धे स एवाशेषस्य जगतोऽशेषज्ञत्वस्याकिंचिज्ज्ञत्वस्य वा प्रसङ्गः । घटस्यासीदत्र प्रकाशता इदानीं तु पटस्येति नियतदेशकालविशिष्ट प्रतिनियतेऽर्थे तद्यपदेशाभावश्च स्यात् । अथार्थविशेषेण, ननु कोऽयमर्थस्य विशेषो ज्ञान प्रति जनकत्वं, आलम्बनत्वं वा । तत्रापि आद्यविकल्पोऽनुपपन्नः, १० ज्ञानजनकत्वादर्थेन सह प्रकाशतायाः सम्बन्धे चक्षुरादिनापि सह सम्ब न्धप्रसङ्गात् । द्वितीयविकल्पे परस्पराश्रयः, अर्थस्यालम्बनत्वसिद्धौ हि प्रकाशताया अर्थविशेषेण सम्बन्धसिद्धिस्तत्सिद्धौ चार्थस्यालम्बनत्वसिद्धिरिति । तन्नार्थातिशयोऽपि ज्ञानस्य लिङ्गम् । नाप्यर्थसम्बन्धः। तस्य सम्बन्धिज्ञानपूर्वकत्वात्सम्बन्धिनौ चात्रेन्द्रियार्थो ज्ञानार्थवति१५ शयाौँ वा न ज्ञातुं शक्यते । यथा चैषां ज्ञातुमशक्तिस्तथाऽनन्तर मेवोक्तम् । अथ प्रवृत्त्या ज्ञानमनुमीयते, तर्हि निवर्तकस्य ज्ञानस्य कथं प्रतिपत्तिः स्यात् । प्रवृत्त्या हि प्रवर्तकमेव ज्ञानमनुमीयते न निवर्तकम् । अथ प्रवृत्तिनिवृत्तिभ्यां ज्ञानमुपकल्प्यते तर्हि तयोरभावे उदासीनस्योपेक्षणीयार्थविज्ञानं कथं कल्प्येत । तदित्थं ज्ञानेन सहा२० न्यथानुपपन्नस्य कस्याचिल्लिङ्गस्यासम्भवान्नानुमानादपि तत्सत्ताप्रतीतिः । अथार्थापत्तेः । तथाहि । अर्थप्राकट्याख्यफलमन्यथानुपपद्यमानं आत्मन्यहंप्रत्ययग्राह्ये नित्यपरोक्षं क्रियारूपं ज्ञानमुपकल्पयति । प्रवृत्तिरप्यन्यथानुपपद्यमाना तत्परिकल्पयति । अज्ञाते प्रवृत्तिविषये प्रवृत्त्यनु पपत्तेः । न हीष्टसाधनोऽप्यर्थः स्वविषयं ज्ञानं विना स्वरूपणैव प्रवृत्ति२५ हेतुः। सर्वदा तत्प्रसक्तेः । न चैवमतः कादाचित्कत्वात् १ 'प्रतिनियत' इति प. पुस्तके पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274