________________
२१८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १८ ज्ञानात्तदुत्पत्तिप्रतिज्ञानात् । नापि प्रकाशतायाः सकाशादर्थः समुत्पद्यते स्वसामग्रीतः प्रकाशतायाः पूर्वमप्यर्थस्योत्पन्नत्वात् । नपि संयोगेन प्रकाशताऽर्थेन सम्बद्धा । तस्य द्रव्यवृत्तित्वेनाद्रव्यरूपायां प्रकाशतायां
सम्भवाभावात् । भवतु वा केनचित्सम्बन्धेन सम्बद्धाऽसौ, तथाप्यर्थ५ मात्रेणैषा सम्बद्धाऽर्थविशेषेण वा । अर्थमात्रेण सम्बन्धे स एवाशेषस्य
जगतोऽशेषज्ञत्वस्याकिंचिज्ज्ञत्वस्य वा प्रसङ्गः । घटस्यासीदत्र प्रकाशता इदानीं तु पटस्येति नियतदेशकालविशिष्ट प्रतिनियतेऽर्थे तद्यपदेशाभावश्च स्यात् । अथार्थविशेषेण, ननु कोऽयमर्थस्य विशेषो
ज्ञान प्रति जनकत्वं, आलम्बनत्वं वा । तत्रापि आद्यविकल्पोऽनुपपन्नः, १० ज्ञानजनकत्वादर्थेन सह प्रकाशतायाः सम्बन्धे चक्षुरादिनापि सह सम्ब
न्धप्रसङ्गात् । द्वितीयविकल्पे परस्पराश्रयः, अर्थस्यालम्बनत्वसिद्धौ हि प्रकाशताया अर्थविशेषेण सम्बन्धसिद्धिस्तत्सिद्धौ चार्थस्यालम्बनत्वसिद्धिरिति । तन्नार्थातिशयोऽपि ज्ञानस्य लिङ्गम् । नाप्यर्थसम्बन्धः।
तस्य सम्बन्धिज्ञानपूर्वकत्वात्सम्बन्धिनौ चात्रेन्द्रियार्थो ज्ञानार्थवति१५ शयाौँ वा न ज्ञातुं शक्यते । यथा चैषां ज्ञातुमशक्तिस्तथाऽनन्तर
मेवोक्तम् । अथ प्रवृत्त्या ज्ञानमनुमीयते, तर्हि निवर्तकस्य ज्ञानस्य कथं प्रतिपत्तिः स्यात् । प्रवृत्त्या हि प्रवर्तकमेव ज्ञानमनुमीयते न निवर्तकम् । अथ प्रवृत्तिनिवृत्तिभ्यां ज्ञानमुपकल्प्यते तर्हि तयोरभावे
उदासीनस्योपेक्षणीयार्थविज्ञानं कथं कल्प्येत । तदित्थं ज्ञानेन सहा२० न्यथानुपपन्नस्य कस्याचिल्लिङ्गस्यासम्भवान्नानुमानादपि तत्सत्ताप्रतीतिः ।
अथार्थापत्तेः । तथाहि । अर्थप्राकट्याख्यफलमन्यथानुपपद्यमानं आत्मन्यहंप्रत्ययग्राह्ये नित्यपरोक्षं क्रियारूपं ज्ञानमुपकल्पयति । प्रवृत्तिरप्यन्यथानुपपद्यमाना तत्परिकल्पयति । अज्ञाते प्रवृत्तिविषये प्रवृत्त्यनु
पपत्तेः । न हीष्टसाधनोऽप्यर्थः स्वविषयं ज्ञानं विना स्वरूपणैव प्रवृत्ति२५ हेतुः। सर्वदा तत्प्रसक्तेः । न चैवमतः कादाचित्कत्वात्
१ 'प्रतिनियत' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"