________________
परि. १ सू० १८]
स्याद्वादरत्नाकर सहितः
ज्ञातो वाऽर्थो बुद्धेर्गमकः स्यात् । अज्ञातस्य तद्गमकत्वे सर्वं सर्वस्य गमकं स्यादविशेषात् । अथ ज्ञातः, किं तत एव गम्यज्ञानात् ज्ञानान्तराद्वा । तत एव चेत्, तर्हि परस्पराश्रयः । सिद्धे हि ज्ञातत्वविशिष्टेऽर्थे ततो ज्ञानसिद्धिस्तत्सिद्धौ चार्थस्य ज्ञातत्वसिद्धिरिति । अथ ज्ञानान्तराज्ज्ञातत्वज्ञप्ति: तर्ह्यनवस्था । अथार्थातिशयो लिङ्गम् | ननु कोऽयमर्थस्यातिशयो नाम प्राकट्यमिति चेत् ।
अहो चिराय प्रकटीचकार मीमांसकः स्वीयरहस्यमेतत् ॥ विचारचूलामवलम्बमानं विलोकयन्त्वेतदपीह सन्तः ॥ २३० ॥ प्राकट्यं हि ज्ञानं प्रकाशतामात्रं वा स्यात् । यदि ज्ञानम्, तदा तस्यासिद्धत्वात् कथं लिङ्गत्वम् । न च स्वरूप सिद्धौ स्वरूपस्यैव १० लिङ्गत्वं कापि प्रतिपन्नं येनात्रापि तथा कल्प्येत । अथ प्रकाशतामात्रं प्राकट्यम्, तत्किं सर्वप्रमातृणां साधारणमसाधारणं वा । यदि साधारणं, तदा सर्वदा सर्वान्प्रत्ययमविशेषेणैवार्थः प्रतिभासेत न तु कदाचित्कंचन प्रति । प्रकाशतामात्रस्य सर्वान्प्रत्यविशिष्टत्वात् । अथासाधारणम्, ततश्चायमर्थः सम्पन्नो यस्येन्द्रियेणोपकृतोऽसाधारण- १५ प्रकाशताख्यातिशयवानर्थः सम्पन्नस्तस्यैव प्रतिभासते नापरेपामिति । तदप्ययुक्तम् । न हि नीलपीताद्यर्थधम्र्मो येनैव जन्यते तस्यैव तद्विशिष्टो Sर्थः प्रतिभासत इति नियमो दृश्यते । अपि चेयं प्रकाशताऽर्थादव्यतिरिक्ता व्यतिरिक्ता वा भवेत् । यद्यव्यतिरिक्ता तदार्थ एव सा । अर्थस्य च सदा सत्त्वात्प्रकाशतया अपि सदा सत्त्वापत्तेः समस्तं २०. विश्वं सदा सर्वज्ञमकिंचिज्ज्ञ वा भवेत् । अथ व्यतिरिक्ता, तदेवमर्थेन सम्बद्धा वा स्यादसम्बद्धा वा । यद्यसम्बद्धा, कथमर्थस्येयमिति व्यपदिश्येत । अथ सम्बद्धा, किं तादात्म्येन तदुत्पत्त्या संयोगेन वा । न तावत्तादात्म्येन, व्यतिरेक विकल्पस्वीकृतत्वात् । नापि तदुत्पत्त्या, । यतोऽकि प्रकाशतोत्पद्यते ततो वाऽर्थः । न तावदर्थात्प्रकाशतोत्पद्यते । २५
१ 'प्रकाशताया' इति म. पुस्तके पाठः ।
२१७
"Aho Shrut Gyanam"
143