________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. १ सू. १८
'
,
आत्मप्रतीतिं परिमुच्य जातु वस्तुप्रतीतिर्न समस्ति बुद्धया || त्यजन्निदं वल्गु विचारतत्त्वं नात्रैव मीमांसके एष वादी || २२९ ॥ अपि च ज्ञानस्य स्वसंवेदनप्रत्यक्षाविषयत्वे कुतस्तत्सत्ता प्रतीयेत । प्रत्यक्षान्तरादनुमानादर्थापत्तेर्वा । न तावत्प्रत्यक्षान्तरात्, कणभक्षाक्ष५ पादपक्षकक्षीकारानुषङ्गात् । नाप्यनुमानात्, यतस्तत्र लिङ्गं चक्षुरादी - न्द्रियमर्थस्तदतिशयस्तत्सम्बन्धस्तत्र प्रवृत्तिर्वा स्यात् । यदि चक्षुरादीन्द्रियम्, तर्हि तदपि निर्विशिष्टं विशिष्टं वा ज्ञानस्य गमकं भवेत् । यदि निर्विशिष्टम्, तदा सुप्तमत्तमूच्छितान्यत्रगतचित्तावस्थास्वपि ज्ञानं तद्गमयेत्तत्सत्तायास्तत्राप्यविशेषात् । अथ विशिष्टम् ननु केन १० विशेषणेन विशिष्टत्वमिन्द्रियस्य किमनावरणत्वेन प्रगुणननः सहकृतत्वेन वा । न तावदनावरणत्वेन तस्य प्रत्यक्षतः प्रत्येतुमशक्यत्वादप्रतीतस्य च हेतुविशेषणत्वे विशेषणासिद्धो हेतुः स्यात् । अथ विषयपरिछित्त्याऽनावरणेन्द्रियसिद्धिः । तर्हि परस्पराश्रयः । तथाहि विषयपरिच्छितिर्ज्ञानं तत्सिद्भावनावरणत्वविशेषणविशिष्टमिन्द्रियं सिद्धयति तथा१५ भूतेन्द्रियसिद्धौ च विषयपरिच्छित्तिः सिद्धयतीति । एतेन च प्रगुणमन:सहकृतत्वमपीन्द्रियविशेषणं दूषितम् । मनसोऽतीन्द्रियस्य प्रगुणत्वधमोंपेतस्य विषयपरिच्छित्तिं परित्यज्यान्यतः प्रत्येतुमशक्यत्वाविशेषात्तत्र च परस्पराश्रयदोषप्रसङ्गात् । अथार्थो बुद्धेर्लिङ्गम् । सोऽपि सत्तामात्रेण तत्स्याज्ज्ञातत्वविशेषणविशिष्टो वा । न तावदाद्यः पक्षः । तथाभूतस्या२० र्थस्य बुद्ध्यव्यभिचारित्वाभावात् । न वै यत्र यदा सत्तामात्रसमर्थस्य तत्र तस्माद्बुद्धिरनुमातुं शक्यते । तां विनाप्यर्थस्य सम्भवतस्तया सहान्यथानुपपत्तेरभावात् । यदि च सत्तामात्रेणार्थस्यानुमापकत्वमिष्यते । तदा सर्वार्थसत्तायाः सर्वपुरुषान्प्रत्यविशिष्टत्वात्सर्वबुद्धयनुमानं स्यात् । अथ ज्ञानत्वाविशेषणविशिष्ट इति द्वितीयः पक्षः, नं तत्रापि ज्ञानत्वेन ज्ञातो
२१६
"
<
,
१ मीमांसकपदेन पूज्यविचास्कारित्वं बोध्यते । अत्र तु पूज्यविचारकारिवाभावात् अययार्थ मीमांसक इति नाम । २ तदा इत्यधिकं प. म. पुस्तकयोः पाठः । ३' ज्ञातत्वेन ' इति प. म. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"