________________
परि. १ सू. १८] स्याद्वादरत्नाकरसहितः रोधात् । अपि च समस्तप्रमाणापेक्षया ज्ञानस्य कर्मत्वेनाप्रतीयमानत्वं हेतुत्वेनाभिमतं स्वरूपापेक्षया वा । यदि समस्तप्रमाणापेक्षया, तदा सत्त्वमपि ज्ञानस्य दुःप्रापं स्यात् । तथाहि यत् समस्तप्रमाणापेक्षया कर्म न भवति न तत्सयवहारसरणिमनुसरति यथा तुरङ्गशृङ्गं समस्तप्रमाणापेक्षया न भवति च कर्म ज्ञानमिति । एवं ज्ञेयेऽपि कः समाश्वासः ५ स्यात् ज्ञाननिबन्धनत्वात् ज्ञेयव्यवस्थितेरित्यनभिलषतोऽपि निखिलशून्यतावादः समायात इति साधुसाधितं बुद्धेः पारोक्ष्यं श्रोत्रियेण । अथ शून्यतापक्षो न क्षोद क्षमेत् । तर्हि ज्ञानस्याप्रत्यक्षत्वेऽपि प्रमाणान्तरात् प्रतीतिरवश्यमरीकर्तव्येति समस्तप्रमाणापेक्षया कर्मत्वेनाप्रतीयमानत्वादित्यस्य हेतोरसिद्धत्वम् । अथ स्वरूपापेक्षया कर्मत्वेनाप्रतीयमा- १० नत्वम् । तदप्यनुभवेन प्रतिहन्यमानत्वादनुचितम् । सकलजगत्प्रतीतौ हि स्तम्भग्राहिज्ञानं ततोऽहमनुभवामीत्यनुभवस्तस्माञ्च प्रसिद्ध ज्ञाने स्वरूपापेक्षया कर्मत्वं कथं नामापहोतुं शक्यते । ततश्च स्वरूपापेक्षया कर्मत्वेनाप्रतीयमानत्वादित्यत्रापि पक्षे हेतोरसिद्धत्वमेव दोषः । एतेन प्रतिभासने वा करणात्मनोर्ज्ञानान्तरस्येत्यादिना याऽनवस्थोक्ता सापि १५ प्रत्युक्ता । स्वरूपापेक्षयैव ज्ञाने कर्मत्वप्रतिभासस्य समर्थितत्वात् । किं च प्रतीतिसिद्धमपि ज्ञाने प्रत्यक्षत्वं कर्मत्वं च यद्यपलप्यते तेथार्थेऽपि प्रत्यक्षत्वकर्मत्वयोः कः समाश्वास इति कथमर्थस्य व्यतिरेकदृष्टान्तत्वेनोपादानं स्यात् । प्रसङ्गविपर्ययाभ्यां च ज्ञानस्य प्रत्यक्षत्वं प्रतीयते । तथाहि यत्परोक्षं न तत्स्वोपघानेनाप्युपलम्भयति यथेन्द्रियम् । परोक्षं २० च भवद्भिः परिकल्पितं ज्ञानमिति प्रसङ्गः । विपर्ययस्तु यत्स्वाकारोपहितमाकारान्तरमुपलम्भयति तत्परोक्षं न भवति प्रत्यक्षं वा भवति यथा प्रदीपाद्यालोकः । उपलम्भयति च ज्ञानं स्वाकारोपहितं नीलादिकमिति । एवं च ।
-
-
१' उररीकर्तव्या' इति प. पुस्तके पाठः । २ तदा' इति प. म. पुस्तकयोः पाठः । ३ प्रत्यक्षं वा भवति' इति प. पुस्तके नास्ति ।
"Aho Shrut Gyanam"