________________
. परि. १ सू. १८] स्याद्वादरत्नाकरसहितः
प्रवृत्तेरातिरिक्तं किंचित्कारणमस्तीत्यवसीयते । यस्मिन् सत्यर्थः प्रवृत्तियोग्यतामापद्यते तज्ज्ञानमिति । तदुक्तं शबरस्वामिना । " अप्रत्यक्षा नो बुद्धिः प्रत्यक्षोऽर्थः स हि बहिर्देशसम्बद्धः प्रत्यक्षमनुभूयते ज्ञानं त्वनुमानादवगच्छति" इति । अनुमानादिति अर्थापत्तरित्यर्थः । नैतदपि न्याय्यम् । अनुमानास्पृथग्भूताया ५ अर्थापत्तेरसम्भवादनुमानम्य चार्थप्राकट्यादेः प्रतिहतत्वात् । अपि च . ज्ञानमुपजायमानं स्वानुभवेऽननुभवाघ्यावृत्तं संवेद्यते अर्थश्चास्य विषयभावमापन्न एव संवेद्यते । अर्थमहं वेभीति प्रतीतेः । नित्यानुमेयत्वे च ज्ञानस्य द्वयमप्येतद्दरुपपादम् । अर्थो हि प्रकाशमानः सर्वान्प्रति साधारण इति ज्ञानस्य परोक्षत्वे मम प्रकाशत इति निर्निमित्ता १० व्यवस्थितिरिति । तन्मीमांसक युक्तियुक्तमधुना स्वस्यावसायं धियः
किं न स्वीकुरुषे न मुश्चसि किमित्यद्यापि पक्षं निजम् ।। यस्मान्यायपथानुगस्य भवतः स्वान्तं निशान्तं मते
दुःपक्षप्रभवानुरागतमसा क्षुद्रेण किं बाध्यते ॥ २३१ ॥ १५ इत्थं निराकुमहि जमिनीयान्परोक्षविज्ञानकथावलितान् । ज्ञानान्तराध्यक्षमुशन्ति येऽथ संवेदनं तन्ममुत्क्षिपामः ॥२३२॥ एवं हि यौगाः संगिरन्ते । ज्ञानं ज्ञानान्तरवेद्यं वेद्यत्वाद्यद्वेचं
तज्ज्ञानान्तरवेद्यं यथा घटो. वेद्यं च ज्ञान नैयायिकमतस्योपपादनपूर्वकं खण्डनम् । तस्मात् ज्ञानान्तरवेद्यमिति न तावदत्र हेतुर- ..
सिद्धः । साध्यधर्मिणि विद्यमानत्वात् । नापि विरुद्धः । सपक्षे वर्तमानत्वात् । नाप्यनैकान्तिको, विपक्षादत्यन्तं व्यावृत्तत्वात् । न च स्वसंविदिततया विपक्षीभूतेऽपि त्रिलोचनज्ञाने वर्तमानत्वादनैकान्तिकत्वम् । अस्मदादिज्ञानापेक्षया ज्ञानस्य ज्ञानान्तर
१ एतदर्थकं मीमांसासू. शा. भाष्ये. पृ. ७ पं. १९ ।
"Aho Shrut Gyanam"