Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 236
________________ परि. १ स. १८] स्याद्वादरत्नाकरसहितः ।। २२३ दिति चेत् । तदिदं स्वसंविदितत्वेऽपि समानम् ! नहि स्वसंविदितत्वस्वभावस्याप्यभावे ज्ञानस्य ज्ञानता युक्ता । तस्यापि ज्ञानस्वभावत्वाविशेषात् । न खलु शम्भुज्ञानेऽर्थग्रहणात्मकत्वेनेव स्वसंविदितत्वेनापि विज्ञानस्वभावंता दृष्टान्ततश्चास्मदादिज्ञानेऽपि स्वसंविदितत्वं कथं न स्यात् । न च स्वभावः प्रादेशिको युक्तः। आलोकस्य स्वपरप्रकाशकता मिहिरमण्डलालोकस्येव स्वभावो न पुनः प्रदीपाद्यालोकस्येति कश्चिद्विपश्चिद्वक्ति । उभयत्राप्यविशेषतस्तत्प्रतीतेः । नन्वस्मदादिज्ञानस्य शङ्करज्ञानवत्स्वपरव्यवसायिस्वभावत्वे तद्वन्निःशेषार्थप्रकाशकत्वमपि स्यादित्यपि बालप्रलपितम् । स्वयोग्यतानुसास्तियैव ज्ञानेनार्थस्य प्रकाशनात्प्रदीपवत् । न खलु प्रदीपस्य दिनेश्वरवत्स्वपर- १० प्रकाशस्वभावत्वेऽपि तद्वन्निःशेषार्थप्रकाशकत्वमुपलब्धम् । स्वयोग्यतानुसारितयैवार्थस्थानेनापि प्रकाशनात् । योग्यता च सकलज्ञानानां स्वावरकादृष्टक्षयोपशमतारतभ्यस्वरूपा प्रतिपत्तव्या । न हि तस्या अभावे विषयग्रहणतारतम्य ज्ञानानां युज्यते इति सविस्तरं पुरस्तादुपपादयिष्यते । साध्यविकलता चात्रानुमाने दृष्टान्तस्य स्पष्टैव । तथाहि १५ न घटो ज्ञानान्तरवेद्योऽपि तु ज्ञानवेद्य उत्तरशब्दस्य सजातीयापेक्षयैव भेदवाचकत्वात् । तत्कथमत्र ज्ञानान्तरवेद्यत्वं साध्यं सम्भवति । अथैकेन ज्ञानेनानुभूते ज्ञानान्तरं यदा प्रवर्तते तदा ज्ञानान्तरवेद्यत्वं कुम्भे सम्भवतीति चेत् , तर्हि स्वसंविदितेऽपि ज्ञाने योगिप्रत्यक्षरूपज्ञानान्तरं प्रवर्तत एव ततः सिद्धसाध्यता । अथाम्मदादिज्ञानान्तरवेद्यत्वं २० साध्यते तदास्मदादीति विशेषणं साध्यस्याभिधानीयम् । भवतु वा ज्ञानमस्मदादिज्ञानान्तरवेद्यमिति सविशेषणं साध्यं, तथापि सिद्धसाध्यता । चैत्रशरीरवर्तिसंवेदनस्यानुरूपेणास्मदादिज्ञानान्तरेण वेद्यत्वाभ्युपगमात् । एकशरीवर्त्यस्मदादिज्ञानान्तरवेद्यत्वं साध्यमिति चेत्, तोकशरीरवर्तीति विशेषणान्तरं साध्यस्य वाच्यम् । २५ १' स्वभावतेति तदृष्टान्तः' इति भ. म. पुस्तकयो पाठः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274