Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 212
________________ परि. १ सू. १६ ] स्याद्वादरत्नाकरसहितः अदृष्टतः स्वीक्रियते त्रिलोकीविचित्रतैषा यदि च प्रवादिन् । सुदुर्भगाविभ्रमसन्निभेन ब्रह्मात्मना तर्हि किमत्र कार्यम् ॥ २०३ ॥ ननूर्णनाभो यथा लालाजालकरणे स्वभावात् एव प्रवर्तते तथा परमात्मा जगन्निर्माण इति चेत् । तदपि सकर्णानामनाकर्णनीयम् । ऊर्णनाभो हि न स्वमावत एव प्रवर्तते किं तर्हि प्राणिभक्षणलाम्पट्या- ५ प्रतिनियतहेतुसम्भूततया कादाचित्कात् । यदप्युक्तमिन्द्रियसन्निपातानन्तरसमुद्भूताविकल्पकाध्यक्षतः परानपेक्षतया प्रतीयमानमेकत्वमेवेत्यादि । तदपि न पेशलम् , यतः एकव्यक्तिगतं किं वाऽनेकव्यक्तिसमाश्रितम् ॥ व्यक्तिमात्रगतं यद्वा तदेकत्वं प्रतीयते ॥ २०४ ॥ एकव्यक्तिगतं तच्चेत्तदा पर्यनुयुज्यते ॥ समानमसमानं वा न समानं विरोधतः ॥ २०५ ॥ एकव्यक्तिगतं तद्धि कथं साधारणं भवेत् ॥ अथासमानमेतन्न भेदसिद्धिप्रसङ्गतः ॥ २०६ ॥ यदसाधारणं रूपं भेदस्तस्माद्धि कोऽपरः ॥ एकव्यक्तिगतं तस्मान्नैकत्वमुपपद्यते ॥ २०७ ॥ अनेकव्यक्तिसम्बद्धं सत्तासामान्यलक्षणम् ॥ प्रत्यक्षमानतो ग्राह्यमथैकत्वमिहोच्यते ॥ २०८ 11 व्यक्त्याधारतया तम्कि प्रतीयेतान्यथापि वा ।। आद्यपक्षे प्रतिक्षेपः कथं भेदस्य सम्भवेत् ॥ २०९ ॥ व्यक्तेराधाररूपत्वं तस्य चाधेयतेत्ययम् ।। आधाराधेयभावो हि भेदमाकर्षति ध्रुवम् ॥ २१० ॥ अथ तद्वयक्त्यनाधारतया हन्त प्रतीयते ।। अन्तरालेऽपि भासेत व्यक्तीनामग्रहे नर्नु ॥ २११ ॥ . १ च ' इति प. पुस्तके पाठः । २ ' नतु ' इति भ. पुस्तके पाठः। २० "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274