Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः तत्कथं पक्षस्य प्रत्यक्षबाधितत्वमिति । तन्न वाच्यम् । इतरेतराश्रयप्रसङ्गात् । प्रपञ्चग्राहिणि प्रत्यक्षे बाधिते सत्यस्यानुमानस्य प्रसवः प्रस्तुते चास्मिन्ननुमानेऽनेनप्रत्यक्षबाधितत्वम् । किं च लिङ्गजत्वमात्रमिन्द्रियजत्वमानं वा न बाधकत्वे प्रयोजकमपि त्वनन्यथासिद्धत्वमेव । यत् खल्वन्यथासिद्धं तदनन्यथासिद्धेन बाध्यतेऽनन्यथासिद्धं चात्रेन्द्रि- ५ यजं विज्ञानमतो मिथ्यात्वानुमानं बाधत एव । नन्वेवमनुमानमपि प्रत्यक्ष बाधेत विशेषाभावात् । इदमतिपरिफल्गु । विशेषाभावासिद्धेः । अन्यथासिद्धत्वलक्षणस्य विशेषस्य प्रस्तुतानुमाने विद्यमानत्वात् । तथाहि प्रतीयमानस्य प्रकृतहेतोः प्रपञ्चाख्ये धर्मिणि सत्यत्वेनैवान्यथा. नुपपत्तिर्न पुनर्मिथ्यात्वेन । यदि हि घटादिप्रपञ्चो मिथ्यारूप: स्या- १० तदा कथं नाम स्वविषयां प्रतीति जनयेत् । न खलु मिथ्याभूत निशीथिनीनाथद्वित्वादिकं कस्याश्चित् प्रतीतेर्जनकत्वेन सम्मतं विदुघाम् । प्रतीतिजनकत्वाभावे च प्रपञ्चस्य प्रतीयमानत्वमपि न स्यात् । तवेदतीक्रियते तर्हि तव्यापकं सत्यत्वमपि प्रपञ्चस्य किन्नाङ्गीकरणीयम् ततः सत्यत्वेनैवान्यथानुपपन्नः प्रतीयमानत्वाख्यो हेतुर्न मिथ्यात्वेनेत्य- १५ न्यथासिद्धमिदं प्रपञ्चमिथ्यात्वानुमानम् । न चैवं सन् घटः सन् पट इत्याद्युल्लेखवतः प्रपञ्चसत्त्वग्राहकस्य प्रत्यक्षस्यान्यथासिद्धिरस्ति । गत्यन्तराभावात् । न खलु प्रपञ्चस्य मिथ्यात्वे प्रत्यक्षस्य कथञ्चिदुत्पत्तिः सम्भविनी । मिथ्यारूपस्य कस्यचित्काञ्चिदपि प्रतीति प्रति न जनकत्वमित्युक्तत्वात् । तदेवमनन्यथासिद्धमिदं प्रत्यक्षमेव प्रपञ्चमिथ्या- २० त्वानुमानमन्यथासिद्ध बाधते । ततः सिद्ध पक्षस्य प्रत्यक्षबाधितत्वम् । विवादास्पदीभूतः प्रपञ्चो मिथ्या न भवति असद्विलक्षणत्वाद्य एवं स एवं यथात्मा तथा चायं तस्मात्तथत्यनुमानबाधितत्वं च । प्रतीयमानत्वं च हेतुत्वेनाभिमतं भवतः किं प्रतिभास्यत्वमात्रमाहोस्वित्प्रतीतिजनकत्वेन प्रतिभास्यत्वस्य प्रपंचे भवतानभ्युपगमात् । अनैकान्तिकत्वं च, यस्मा- २५ दात्मनः प्रतीतिजनकत्वेनाभ्युपगमात् प्रतिभास्यत्वमस्ति न च मिथ्या
"Aho Shrut Gyanam"

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274