SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १६] स्याद्वादरत्नाकरसहितः तत्कथं पक्षस्य प्रत्यक्षबाधितत्वमिति । तन्न वाच्यम् । इतरेतराश्रयप्रसङ्गात् । प्रपञ्चग्राहिणि प्रत्यक्षे बाधिते सत्यस्यानुमानस्य प्रसवः प्रस्तुते चास्मिन्ननुमानेऽनेनप्रत्यक्षबाधितत्वम् । किं च लिङ्गजत्वमात्रमिन्द्रियजत्वमानं वा न बाधकत्वे प्रयोजकमपि त्वनन्यथासिद्धत्वमेव । यत् खल्वन्यथासिद्धं तदनन्यथासिद्धेन बाध्यतेऽनन्यथासिद्धं चात्रेन्द्रि- ५ यजं विज्ञानमतो मिथ्यात्वानुमानं बाधत एव । नन्वेवमनुमानमपि प्रत्यक्ष बाधेत विशेषाभावात् । इदमतिपरिफल्गु । विशेषाभावासिद्धेः । अन्यथासिद्धत्वलक्षणस्य विशेषस्य प्रस्तुतानुमाने विद्यमानत्वात् । तथाहि प्रतीयमानस्य प्रकृतहेतोः प्रपञ्चाख्ये धर्मिणि सत्यत्वेनैवान्यथा. नुपपत्तिर्न पुनर्मिथ्यात्वेन । यदि हि घटादिप्रपञ्चो मिथ्यारूप: स्या- १० तदा कथं नाम स्वविषयां प्रतीति जनयेत् । न खलु मिथ्याभूत निशीथिनीनाथद्वित्वादिकं कस्याश्चित् प्रतीतेर्जनकत्वेन सम्मतं विदुघाम् । प्रतीतिजनकत्वाभावे च प्रपञ्चस्य प्रतीयमानत्वमपि न स्यात् । तवेदतीक्रियते तर्हि तव्यापकं सत्यत्वमपि प्रपञ्चस्य किन्नाङ्गीकरणीयम् ततः सत्यत्वेनैवान्यथानुपपन्नः प्रतीयमानत्वाख्यो हेतुर्न मिथ्यात्वेनेत्य- १५ न्यथासिद्धमिदं प्रपञ्चमिथ्यात्वानुमानम् । न चैवं सन् घटः सन् पट इत्याद्युल्लेखवतः प्रपञ्चसत्त्वग्राहकस्य प्रत्यक्षस्यान्यथासिद्धिरस्ति । गत्यन्तराभावात् । न खलु प्रपञ्चस्य मिथ्यात्वे प्रत्यक्षस्य कथञ्चिदुत्पत्तिः सम्भविनी । मिथ्यारूपस्य कस्यचित्काञ्चिदपि प्रतीति प्रति न जनकत्वमित्युक्तत्वात् । तदेवमनन्यथासिद्धमिदं प्रत्यक्षमेव प्रपञ्चमिथ्या- २० त्वानुमानमन्यथासिद्ध बाधते । ततः सिद्ध पक्षस्य प्रत्यक्षबाधितत्वम् । विवादास्पदीभूतः प्रपञ्चो मिथ्या न भवति असद्विलक्षणत्वाद्य एवं स एवं यथात्मा तथा चायं तस्मात्तथत्यनुमानबाधितत्वं च । प्रतीयमानत्वं च हेतुत्वेनाभिमतं भवतः किं प्रतिभास्यत्वमात्रमाहोस्वित्प्रतीतिजनकत्वेन प्रतिभास्यत्वस्य प्रपंचे भवतानभ्युपगमात् । अनैकान्तिकत्वं च, यस्मा- २५ दात्मनः प्रतीतिजनकत्वेनाभ्युपगमात् प्रतिभास्यत्वमस्ति न च मिथ्या "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy