SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ २०६ प्रमाणनयत्तत्त्वालोकालङ्कारः 2 छिद्रप्रच्छादनार्थं प्रकटयति भवान्यामपीमामविद्यामत्यन्तं च्छिद्रिताऽसौ प्रभवति न तरां तत्समाच्छादनाय ॥ २२२ ॥ अद्यापि वादिन्यदि तुण्डकण्डूर्विडम्बयत्येव भवन्तमेषा | तदा पुनब्रूहि वयं तदेतत्तथैव वर्त्तेमहि हन्त सज्जाः ॥ २२३ ॥ नवेष ब्रवीमि । विवादविषयापन्नः प्रपंचो मिथ्या प्रतीयमानत्वाद्यदित्थं तदित्थं यथा निशीथिनीनाथद्वित्वमिति । श्रुतमिथ्यात्वसाधकानुमानस्य खण्डनम् । मिदमनुमानं परं दुर्बारमारुतप्रहततरंगिणीतुङ्गतङ्गतरङ्गपरम्पराप्रेरितोत्पलनालवद्दोलायते । तथाहि मिध्यात्वमत्र कीदृक्षमाकांक्षितं सूक्ष्मदृशा, किमत्यन्तासत्त्वमुतान्यस्यान्याकारतया प्रतीतत्व१० माहोस्विदनिर्वचनीयत्वमिति न तावदाद्यः पक्षः, असत्ख्यातेस्त्वयाऽनङ्गीकाराच्चन्द्रद्वित्वस्यात्यन्तासत्त्वाभावेनोदाहरणस्य साध्यविकलत्वप्रसङ्गाच्च । अथान्यस्यान्याकारतया प्रतीतत्वम्, तदपि न । विपरीत - ख्यातेरपि त्वयाऽनभ्युपगमात् । अथानिर्वचनीयत्वरूपं मिथ्यात्वं सिषाधयिषितम् । तदापि चन्द्रद्वित्वे तदभावात्साध्यविकलत्वमुदा१५ हरणस्य । न हि चन्द्रद्वित्वमनिर्वचनीयत्वेन प्रतिपन्नमस्त्यनिर्वचनीयख्यातिप्रत्याख्यानप्रघट्टके विकुट्टितत्वात् । प्रत्यक्षबाधितत्वं च पक्षस्य दोषः अनुष्णस्तेजोऽवयवात्यादिवत् । तथाहि सन् घटः सन् पट इत्याद्युल्लेखवता प्रत्यक्षेण प्रपञ्चस्य सत्यत्वमेव प्रतीयते न हि घटादेः पृथक् प्रपञ्चो नाम कश्चिदस्ति । ननु पक्षस्य प्रत्यक्षबाधितत्वमसमंजसं प्रपञ्चान्तर्गतत्वेन २० प्रत्यक्षस्य तत्रापि मिथ्यात्वस्य साध्यमानत्वात् । न च मिथ्यारूपेण तेन किमपि बाधितुं शक्यमतिप्रसक्तेः । ततश्च यथानुमानमिथ्यात्वं साधयन्तं लोकायतं प्रत्यनुमानबाधा नोपपन्ना तथा प्रपञ्चान्तर्गतत्वेन प्रत्यक्षमिथ्यात्वं साधयन्तं मायावादिनं प्रति प्रत्यक्षबाधापीति चेत् । न । त्वदीयानुमानस्यापि प्रत्यक्षवत् प्रपञ्चान्तर्गतत्वेन मिथ्यात्वात्प्रस्तु२५ तसाध्यसाधकत्वानुपपत्तिप्रसक्तेः । अथैवमभिधीयते प्रपञ्चमिध्यात्वप्रसाधकमिदमनुमानमेव सन् घटः सन् पट इत्यादिप्रत्यक्षप्रतीतिं बाधते [ परि. १ सू. १६ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy