SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०५ परि. १ सू. १६] स्याद्वादरत्नाकरसहितः भेदविषयत्वात् । न हि भिन्ना एतेऽर्था इति प्रतिभासः स्वात्मनोऽसत्यतां निश्चिनोति । तन्निश्चये हि विपर्ययात् प्रवृत्तिर्न स्यात् । अथ प्रतिभासान्तरादसत्यता निश्चीयते । तदपि प्रतिभासान्तरं स्वसंवेदने नियतं कथमन्यस्यासत्यतां वेत्ति । अथोभयगोचरं तत्, तदा कथं न भेदावगमः । उभयगोचरत्वेऽपि न भेदाक्गम इति ५ स्ववचनविरोधः । पराभ्युपगमेनाभिधानादविरोध इति चेत् । स पराभ्युपगमः किं स्वाभ्युपगमादभेदेनावगतोऽथ भेदेनेति । यद्यभेदेन, तदासौ स्वाभ्युपगम एव स्यात् । अथ भेदेन, तर्हि तदवस्थ एव विरोधः । लोकव्यवहारानुवाद एष इति चेत्, स खलु लोकव्यवहारस्तत्त्वदृष्टेरर्थान्तरमनन्तरं वा । यदि नार्थान्तरम्, तर्हि तत्त्वदृष्टिरेव १० लोकव्यवहारः । ततस्तव्यवहारादेव भेदसिद्धिः । अथ तत्त्वदृष्टान्तरं लोकव्यवहारः । ततः कथं न भेदः । उपप्लव एवेति चेत् । सोऽपि सत्त्वदर्शनाद्भिन्नोऽथाभिन्न इति पूर्ववत्प्रसङ्गः । अविद्यानिम्मितः समस्ति भेद इत्यपि न युक्तम् । अविद्यापि तत्त्वदृष्टेरन्यानन्या वेत्यनिवृत्तः पर्यतुयोगः न चेत्थमनिर्वचनीयाऽविद्येत्यभिधातव्यम् । वस्तुनो १५ भेदाभेदाभ्यां विचार्यमाणत्वोपपत्तेः । न चावस्तुत्वमस्या इत्यभिधेयम् । वस्तुत्वस्यात्रैवानन्तरं प्रसाधितत्वात् । यच्च समारोपितादपि भेदाढ़ेदव्यवस्थोपपत्तेरित्याधुक्तम् । तदप्ययुक्तम् । आत्मनः सांशत्वे सत्येव बन्धमोक्षादिभेदव्यवस्थोपपत्तेः निरंशस्यान्तर्बहिर्वा वस्तुनः सर्वथाप्यप्रतीतेरित्यात्माद्वैताभिनिवेशं परित्यज्यान्तर्बहिश्चानेकप्रकारं वस्तु वास्तवं २० प्रमाणसिद्धमङ्गीकर्त्तव्यं न पुनर्भेदप्रपञ्चः समग्रोऽपि हेय इति वाच्यमिति । तस्मात्तद्वैतमेतत्प्रबलपरिलसद्युक्तिभिर्विप्रयुक्तं युक्तं किं नाम वक्तुं कथय तव सखे युक्तिमार्गानुगस्य। १ 'अर्थभेदेन'इति भ.प. पुस्तकयोः पाठः । २ 'अर्थ' इति भ. प. पुस्तकयोः पाठः । ३ 'तत्त्व' इति म. प. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy