________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ तत्त्वतो नास्त्यत एव तैावर्तत इत्यादि। तदप्यसारतया डिण्डीरपिण्डाडम्बरं विडम्बयति । यतो यद्यवस्तुसत्यविद्या कथामियं प्रयासतो निवर्तनीया भवेत् । न ह्यवस्तुसन्तः सुरसरणिसरसिजप्रमुखाः प्रया
सतो निर्वर्तनीयतामनुसरन्तः समुपलभ्यन्ते । यद्यविद्यापि सती कथ५ मियं निवर्तयितुं केनापि शक्यतेति चेत् । कातर किमत्र संत्रासेन ।
सतामेव हि महीरुहादीनां निवृत्तिरिह प्रतीयते । तदियमविद्या निवर्तनीयत्वादेकान्तनित्या माभूत्सती तु भवत्येव । सत्त्वे च द्वितीयाया अविद्यायाः सद्भावात्कथमद्वैतवादः । न चाविद्यानिर्मितत्वेन महीरुहादीनामपि पदार्थानां परमार्थतोऽसत्त्वमिति वाच्यम् । परस्पराश्रयदोषप्रसक्तेः । सिद्धे ह्यविद्यानिर्मितत्वे तेषां परमार्थतोऽसत्त्वं सिद्धयति तत्सिद्धौ चाविद्यानिर्मितत्वसिद्धिरिति । यच्चोक्तं यथैव हि रजःसम्पर्ककलुषेम्भसीत्यादि । तदपि फल्गु । यतो बाध्यबाधकभावाभावे कथं श्रवणमननादिलक्षणाविद्यान्तरं प्रशमयेत् । बाध्यबाधकभावश्व सतोरेव दन्दशूकनकुलयोरिव न त्वसतोः शशकाश्वविषाणयोरिव । न वाऽविद्यात्वेन सम्मतस्य भेदस्योच्छेदो घटते । वस्तुस्वभावत्वेनाभेदस्येव तस्योच्छेतुमशक्तेः । ननु स्वमावस्थायां भेदाभावेऽपि भेदप्रतिभासो दृष्टस्ततो न पारमार्थिको भेद इति । अभेदेऽपि समानम् । तस्यापि तद्दशायामसतः प्रतिभासमानत्वेनापारमार्थिकत्वापत्तेः । कथं
च स्वप्नावस्थायां भेदस्यासत्त्वम् । बाध्यमानत्वाच्चेत्, तर्हि तत एवा२० भेदस्यापि तदस्तु । यदि च तदवस्थायां बाध्यमानत्वाद्भेदस्यासत्त्वम् । तहि जाग्रदवस्थायां तस्याबाध्यमानत्वात्सत्त्वमस्तु ।
एकत्रास्य बाध्यमानत्वोपलम्भात्सर्वत्रासत्त्वे च स्थाणौ पुरुषप्रत्ययस्य बाध्यमानत्वोपलम्भात्सर्वत्र पुरुषस्यासत्त्वप्रसङ्गः । ततो जाग्रदवस्थायां
स्वप्नावस्थायां वा यत्र बाधकोदयस्तदसत्यं यत्र तु तदभावस्तत्सत्यमित्युप२५ गन्तव्यम् । अपि च भेदप्रतिभासस्तावत्सर्वेषां भवति तस्यासत्यता कुतः
प्रतीयते किं तत एव प्रतिभासान्तराद्वा । तत एवेति न युक्तम् । तस्य
"Aho Shrut Gyanam"