________________
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः
२०३ यञ्चोक्तं क्वचिद्भावे भावान्तरेभ्यो भेदः प्रतिपद्यमानः क्रमेण योगप
__हान वेत्यादि । तत्र योगपद्येनैव भेदप्रतिपत्तिरिति भेदो मिथ्येति मतस्य भेदव्यवस्थापनेन ब्रूमः । सदृशपरिणामस्येव विसदृशपरिणामस्यापि निराकरणम् । समस्तपदार्थानां युगपत् प्रतिभासात् । विसदृशपरिणामस्वभाव एव च भेदप्रतिभासः । यच्चात्रोक्तं भेदप्रतिपत्तेः ५ प्रतियोगिग्रहणसापेक्षत्वादित्यादि । तदप्यनुचितम् । यतो भेदव्यवहार एव परापेक्षो न पुनस्तत्स्वरूपप्रतिभासः । स हि तथाविधक्षयोपशम. विशेषात् प्रतियोगिग्रहणनिरपेक्ष एव प्रादुर्भवतीति सिद्धो युगपढ़ेदप्रतिभासः । भेदः पदार्थेभ्यो भिन्नः स्यादित्याद्यपि स्याद्वादस्वीकारात् प्रतिविहितम् । भेदो हि पदार्थानां धर्मः स च तेभ्यः कथञ्चिद्भिन्नोऽ- १० भिन्नश्च । न खलु धर्मधम्मिणोः सर्वथा भेदोऽभेदो वा सम्भवतीति पुरतः प्रकाशयिष्यते । यचोक्तं किमेक एव भेदः प्रत्यर्थं भिन्नो वेत्यादि । तत्र प्रत्यर्थ भिन्न इति नः पक्षः। साधारणासाधारणपरिगामवतो वस्तुनोऽसाधारणपरिणामस्य प्रतिवस्तुनियतस्याभेदत्वेनेष्टेः । स चायमीहशो भेदः स्वतो भेदान्तराद्वा न विद्यते। किन्तु प्रतिनियता- १५: द्वस्तूत्पादककारणादेव । कारणस्थापि प्रतिनियमः स्वकीयप्रतिनियतकारणादेव । न चैवमनवस्थादोषः । एवंविधानवस्थाया बीजाङ्कुरानवस्थानवन्मूलक्षयकारित्वाभावेन दूषणत्वासम्भवात् । एतेन पदार्थानां भेदः किं देशभेदादित्याद्यपि प्रत्युक्तम् ! अपि च यदीत्थं विकल्पाद्भेदो दूष्यते तदानीमभेदेऽपि भवतः का प्रत्याशा। तत्राप्येवंविध- २० विकल्पानां सुकरत्वात् । तथा ह्यमेदः पदार्थानां किं देशाभेदात् कालाभेदादाकाराभेदाद्वा भवेत् । यदि देशाभेदात् , तदा देशस्यापि कुतः सकाशादभेदः । अन्यदेशाभेदाच्छेदनवस्थाप्रसङ्गः । स्वतश्चेत्पदार्थानामपि स्वत एवाभेदो भवतु किं देशाभेदादभेदकल्पनयेत्यादि सर्वत्रापि योजनीयम् । यदपि निगदितं यत एवाविद्या ब्रह्मणोऽर्थान्तरभूता २५ . १ 'सर्वमत्रापि' इति प. म. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"