SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ २०२ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ भेदग्राहकत्वेनैव प्रत्यक्षस्य प्रवर्त्तमानत्वात् । अन्यथा त्वसाधारणस्वरूपपरिच्छेदकत्वविरोधोऽस्य । अथाभिदध्या: विधात्रिति कोऽर्थ इदमिति वस्तुस्वरूपं गृह्णाति नान्यस्वरूपं निषेधति प्रत्यक्षमिति, नैवम् । अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदकस्याप्यसम्पत्तेः । पीतादिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति नेतरथा । तथा चाहुः स्याद्वादबाह्या अपि । “ तत्परिच्छिनत्ति अतद्वयवच्छिन्नत्ति " इति । अपि च यदेदमिति वस्तुस्वरूपमेव गृह्णाति प्रत्यक्षमित्युच्यते । तदावश्यमपरस्य प्रतिषेधमपि तत्प्रतिपद्यत इत्यभिहितमेव भवति । केवलवस्तुस्वरूपप्रतिपत्तेरेवान्याभावप्रतिपत्तिरूपत्वात् । केवलभूतलप्रतिपत्तरेव घटाभावप्रतिपत्तिसिद्धेः । न ह्ययं प्रतिपत्ता किश्चिदुपलभ्यमानः पररूपैः संकीर्णमेवोपलभते । स्तम्भोऽयं कुम्भोऽयमिति तदसंकीर्णस्य समस्तस्य प्रतिभासात् । न च तैरसंकीर्णतैव । सदाद्यात्मनाऽपि तदसङ्करे तस्यासत्त्वप्रसङ्गात् । स्वपररूपोपादानापो हापाद्यत्वाद्वस्तुनो वस्तुत्वस्य । तथा चाहुर्वृद्धाः " सर्वमस्ति १५ स्वरूपेण पररूपेण नास्ति च । अन्यथा सर्वसत्त्वं स्यात्स्व रूपस्याप्यसम्भवः ॥१॥" किं च विधात्रेच प्रत्यक्षमिति नियमस्याङ्गीकारो विद्यावदविद्याया अपि विधानं तवानुषज्यते । सोऽयमविद्याविवेकेन सन्मानं प्रत्यक्षात् प्रतियन्नेव न निषेद तदिति ब्रुवाणः कथं स्वस्थः । कथं वा प्रत्यक्षस्य निषेद्धृत्वाभावं प्रतीयात् । न ताव२० प्रमाणान्तरात् , द्वैतप्रसङ्गात् । स्वतस्तु प्रत्यक्षस्य तथा निश्चये सिद्धं तस्य निषेद्धृत्वमपि । परस्याहं निषेद्धा न भवामीति स्वयं प्रतीतेः । एवं च भेदविषयमेव प्रत्यक्षम् । १ तद्पपरिच्छेदस्य ' इति . म. पुस्तके पाठः । २ 'हेतोरसङ्कीर्णव' इति म. पुस्तके पाठः। ३ ' अङ्गीकारे' इति प. म. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy