________________
२०१
परि. १ सू. १६] स्याद्वादरत्नाकरसहितः इति परापेक्षतथा गृह्यमाणत्वाध्यक्तमस्य परापेक्षत्वम् । अथैकत्वं परानपेक्षतया एवाध्यक्षेण समधिगतं परापेक्षया तु कल्पनाप्रत्ययेनानुगामिरूपतया व्यवयिते । तर्हि भेदोऽपि तथैव प्रत्यक्षेण परिच्छिनम्, केवलं परापेक्षया कल्पनाप्रत्ययेन व्यावृत्तस्वभावतया व्यवाहियत इत्यप्यनिवार्यम् । किं चान्यापेक्षया भवनमेव भेदप्रत्ययस्य कल्पनात्वं ५ स्यात्किं वा स्मरणसमनन्तरभावित्वं यद्वा शब्दानुविद्धत्वमुत जात्याधुलेखित्वमथासदर्थविषयत्वमुपचाररूपत्वं वा । नाद्यः पक्षः । एकत्वप्रत्ययस्यापि कल्पनात्वप्रसक्तेः । परापेक्षामन्तरेणैव भेदस्वरूपप्रतिभासस्य समर्थयिष्यमाणत्वाच्च । नापि द्वितीयः, एकत्वप्रत्ययस्यापि स्मरणसमनन्तरभावित्वेन कल्पनात्वापत्तेः । शब्दानुविद्धत्वं च ज्ञाने १० शब्दब्रह्मनिर्मूलनावसरे प्रागेव प्रतिक्षिप्तम् । स्तम्भोऽयं कुम्भोऽयमित्यादिभेदप्रतिभासस्य जात्याद्युल्लेखित्वात्कल्पनारूपतायामभेदज्ञानस्यापि कल्पनारूपत्वप्रसङ्गस्तस्यापि सत्तासामान्योल्लेखित्वात् । असदर्थविषयत्वं पुनर्भेदप्रतिभासस्यासिद्धम् । अर्थक्रियाकारिणो वस्तुभूतार्थस्य तत्र प्रतिभासनात् । नापि भेदप्रतिभासस्योपचाररूपत्वं कल्पनात्वं १५ सम्भवेत्, कचिदप्युपचारस्यानुपलम्भान्माणवकै पावकाापचारवत् । न चाभेदवादिनो मुख्यभेदाभ्युपगमोऽस्त्यपसिद्धान्तप्रसक्तेः ।“ मृत्योः स मृत्युमामोति य इह नानेव पश्यति" इति निन्दावादोऽप्यनुपपन्नः । भेदाभेदग्राहित्वेनैव निखिलप्रमाणानां प्रवृत्तेः समर्थयिष्यमाणत्वात् । यथोक्तमाहुर्विधातृप्रत्यक्षमित्यादि ।
२० . तत्र किमिदं प्रत्यक्षस्य विधातृत्वं नाम । सत्तामात्रावबोधोऽसा
__धारणवस्तुस्वरूपपरिच्छेदो वा । प्रथमपक्षो न प्रत्यक्षस्य विधातृत्वमेवेत्य
क्षमः । नित्यनिरंशव्यापिनो विशेषनिरपेक्षस्य
सत्तामात्रस्य स्वग्नेऽप्यप्रतीते,जिविषाणवत् । द्वितीयपक्षे न पुनः कथं नाद्वैतप्रतिपादकागमस्य प्रत्यक्षविरोधः । भाव- २५
1' मुख्यमन्तरेण ' इत्यधिकं म. पुस्तके । २ । यच्चोक्त ' इति प. म. पुस्तकयोः पाठः ।
स्य खण्डनम् ।
"Aho Shrut Gyanam"