SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १६ त्वम् । तस्य मिथ्यात्वे वा स्वसिद्धान्तविरोधापत्तिः । साधनविकलत्वं चात्र पक्षे दृष्टान्तस्य । उदाहरणीकृते निशीथिनीनाथद्वित्वे प्रतीतिजनकत्वेन प्रतिभास्यत्वस्य साधनस्याभावात् । न हि मिथ्यारूपं चन्द्रद्वित्वं कस्यचिदपि ज्ञानस्य जनकत्वेन प्रतीतमपि त्वेकत्वमेव शुद्धांशो५ स्तथाविधदोषसामग्रीसमवधानसामर्थ्यावित्वोल्लेखिनी, धियमुपजनयतीत्यवोचाम विपरीतख्यातिविचारावसरे । विरुद्धत्वं चास्य हेतोः, साध्यविपरीतसाधनात् । तथाहि विवादाधिरूढः प्रपञ्चो मिथ्या न भवति प्रतीतिजनकत्वे सति प्रतिभास्यत्वाद्य इत्थं स इत्थं यथात्मा तथा चाय तस्मात्तथेति । अपि च किं सम्यक्प्रतीयमानत्वं साधनत्वेन विवक्षितं मिथ्याप्रतीयमानत्वं वा । प्रथमपक्षे वाद्यसिद्धत्वं हेतोः । सम्यक्प्रतीयमानत्वस्थ प्रपञ्च त्वयानभ्युपगमात् । अभ्युपगमे वा विरुद्धत्वं स्यात् सम्यक्प्रतीयमानत्वस्य सत्यत्वेनैवाविनाभूतत्वात् । द्वितीयपक्षे पुनः प्रतिवाद्यसिद्धित्वम् । मिथ्याप्रतीयमानत्वस्य प्रपञ्चे स्याद्वादि भिरनङ्गीकरणादिति । इदं च पर्यनुयोज्यो भवान्किमेतदनुमानं १५ प्रपञ्चाद्भिन्नमभिन्नं वा । यदि भिन्नम्, तर्हि सत्यमसत्यं वा, यदि सत्यम्, तदा तद्दष्टान्तबलेन प्रपञ्चस्यापि सत्यत्वं स्यात् । अनुमानस्यापि हि सत्यत्वं प्रतीयमानत्वादेव भवद्भिरभ्युपेयं तच्च प्रपञ्चेऽप्यविशिष्टमिति कथं स न सत्यः स्यात् । अथासत्यम्, तत्रापि शून्यमन्यथाख्यातमनिर्वचनीयं वा । आद्यपक्षद्वये न साध्यसाधकत्वं सम्भवति । नृशङ्गवच्छुक्तिकाकलधौतवच्च । तृतीयपक्षोऽपि न श्रेयान् । अनिर्वचनीयत्वस्य प्रपञ्चतः प्रागेव प्रतिहतत्वात् । व्यवहारसत्यमिदमनुमानमतोऽसत्यत्वाभावात् स्वसाध्यसाधकमिति चेत् किमिदं व्यवहारसत्यं नाम । व्यवहृतिर्व्यवहारो ज्ञानं तेन च सत्यं तर्हि परमार्थिकमेतत् । ज्ञानजनकत्वेनार्थक्रियाकारित्वात् पारमार्थिकत्वे वाऽस्यैतद्दष्टान्तबलेनैव २५ प्रपञ्चस्यापि पारमार्थिकत्वं दुःप्रतिषेधं स्यात् । अथ व्यवहारः शब्द स्तेन सत्यं व्यवहारसत्यमिति बधे । ननु शब्दोऽपि सत्यस्वरूपस्त. "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy