________________
परि. १ सू. १६]
स्याद्वादरत्नाकरसहितः
दितरो वा । सत्यस्वरूपश्चेत्, तर्हि तेन यत्सत्यं तत्पारमार्थिकमेव । तत्र चोतो दोषः । अथासत्यस्वरूपश्शब्दः, कथं ततस्तस्य सत्यत्वं नाम । नहि स्वयम सत्यमन्यस्य सत्यत्वव्यवस्थापनहेतुरतिप्रसङ्गात् । अथ कूटकार्षापणे सत्यकार्षापणोचितक्रय विक्रयव्यवहारजनकत्वेन सत्यकार्षापणव्यवहारवद सत्येऽप्यनुमाने सत्यव्यवहार इति चेत् । तर्हि सत्यमेव तदनुमानम् । तत्र चोक्तो दोषः । अतो न प्रपञ्चाद्भिन्नमनुमानं कथमप्युपपद्यते । नाप्यभिन्नम् । प्रपञ्चस्वभावतया तस्यापि मिध्यात्वप्रसक्तेर्मिथ्यारूषं तत्कथं मानं स्वसाध्यं साधयेदित्युक्तमेव ।
तस्मादेवं यत्प्रपञ्चानृतत्वे साध्ये साधो प्रत्यपादि प्रमाणम् ॥ तस्मिन् साध्यं साधनं चेति सर्वे प्रत्याख्यातं प्रोक्तयुक्तिप्रबन्धात् ॥२२४॥ १० यान्यपि परैरपराणि प्रपञ्चगोचराण्यनुमानानि ख्याप्यन्ते । विवादगोचरापन्नः प्रपञ्चः सन्न भवति प्रतीयमानत्वाअद्वैतवादिसंमतानुमानान्तरखण्डनम् । द्दृश्यत्वाद्वा यथा चन्द्रद्वैतरूप्यम् । तथा प्रपञ्चो मृषा सत्त्वासत्त्वाभ्यामनिर्वाच्यो वाऽनात्मत्वाज्जडत्वादुत्पत्तिमत्त्वाद्विनाशित्वाद्वा यत्पुनर्मृषा न भवति सत्त्वासत्त्वाभ्यामनिर्वाच्यं न भवति १५ तन्न यथोक्तानात्मत्वादिसाधनाधिकरणं यथात्मतत्त्वमित्यादीनि । तत्र तावत्पक्षस्य प्रत्यक्षबाधितत्वमनुमानबाधितत्वं च सर्वत्राप्यविशिष्टं द्रष्टव्यम् । तथा हि सन् घटः सन्पट इत्याद्युल्लेखवता निर्बाधप्रत्यक्षेण प्रपञ्चस्य सत्त्वं, सत्यत्वं, निर्वाच्यत्वं च प्रतीयते न पुनरसत्त्वं, मृषात्वनिर्वाच्यत्वं चेति व्यक्तं पक्षस्य प्रत्यक्षबाधितत्वम् । तथा विवादास्पदः २० प्रपञ्चः सद्रूपस्तथा सत्यः सत्त्वासत्त्वाभ्यां निर्वाच्यश्चासद्विलक्षणत्वाद्यदेवं तदेवं यथात्मतत्त्वमसद्विलक्षणश्च प्रपञ्चस्तस्माद्यथोक्तसाध्यत्रयसम्पन्न इत्यनुमानबाधितत्वं च । प्रपञ्चासत्त्वप्रतिज्ञायां च प्रतीयमानत्वदृश्यत्वलक्षणं हेतुद्वयं पूर्वोक्तानुमानहेतुवद्विदुषा स्वयमभ्यूह्य दूषणीयम् । शेषाश्चा
१ ' स्वरूपं ' इति प म पुस्तकयोः पाठः ।
૧૪
२०९
"Aho Shrut Gyanam"