SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २५० प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ नात्मत्वादयो हेतवः सर्वेऽप्यन्यथानुपपत्तिशून्यत्वेन व्यभिचारित्वान्न स्वसाध्यसमर्थनासामर्थ्यभाजो भवितुमर्हन्ति । न खलु मृषात्वानिर्वचनीयत्वाभ्यां सार्द्धमनात्मत्वजडत्वोत्पत्तिमत्त्वविनाशित्वादिहेतूनामन्यथानुपपत्तिः केनापि प्रमाणेन प्रतीयते । सत्यत्वनिर्वचनीयत्वाभ्यां सह तेषां विरोधाप्रतिपत्तेः । तथा सर्वेऽप्यमी हेतवः किमसद्रूपाः सद्रूपा वा, असत्याः सत्या वा, अनिर्वचनीया निर्वचनीया वा । असद्रूपासत्यानिर्वचनीयपक्षेषु प्रतिवाद्यसिद्धत्वं हेतूनाम् । अनेकान्तवादिभिस्तथानङ्गीकरणात् । सद्रूपसत्यनिर्वचनीयपक्षेषु पुनर्वाद्यसिद्धत्वम् । तेषां प्रपञ्चा न्तर्गतत्वेन हेतूनामप्यसद्रूपतया मृषारूपतयाऽनिर्वचनीयतया च भवता १० स्वीकरणात् । तथारूपतया तेषामस्वीकरणे वा तद्दष्टान्तबलेनैव विवक्षितप्रपञ्चस्यापि सद्रूपत्वं सत्यत्वं निर्वचनीयत्वं च प्रसज्यमानं केन वार्येत । विशेषाभावात् । तथैतान्यनुमानानि प्रपञ्चाद्भिन्नान्यभिन्नानि वा | भिन्नान्यपि सत्यान्यसत्यानि वा प्रपञ्चाख्योऽपि धर्मी प्रसिद्धोऽप्रसिद्धो वेत्यादि सर्वमत्रापि प्राग्वत् कुशाग्रीयमतिना चिन्तनीयमिति । १५ तस्मात् ब्रह्म ब्रह्मवादिन्निदानी मूलादेव क्षिप्तमेतत्त्वदुक्तम् । यन्निःशेषा युक्तिवाथी त्वदीया शान्ति नीता कीर्तिता च स्वकीया।२२५|| एवं च-- ज्ञानाद्वैतं निरस्तं तदनु विदलितश्चित्रविज्ञानवादः शून्यं निळूनमस्याप्युपरि परिहताऽनन्तरं ब्रह्मवार्ता । तस्मादुद्दामयुक्तिव्यतिकरकलितस्तत्र यल्लोकयात्रा स्तम्भादिस्तात्त्विकोऽयं जयति भुवि परध्वानवाच्यःपदार्थः।२२६॥१६॥ इदानीं प्राक्प्रतिज्ञानं स्वव्यवसायित्वं ज्ञानविशेषणं व्याख्यानयन्नाहस्वस्य व्यवसायः स्वाभिमुख्येन प्रकाशनं बाह्यस्येव तदाभिमुख्येन करिकलभकमहमात्मना जानामीति इति ॥ १७ ॥ २० "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy