________________
परि. १ सू. १७] स्याद्वादरत्नाकरसहितः :
स्वस्थ प्रमाणत्वेनाभिमतस्य ज्ञानस्वरूपस्य सम्बन्धी व्यवसायः । क उच्यत इत्याह । स्वस्य विज्ञानस्वरूपस्याभिमुख्यमन्मुख्यता स्वाभिमुख्यं तेन स्वाभिमुख्येन स्वानुभवनेन प्रकाशनं प्रतिभासनं यत्स इति । स्वव्यवसायसमर्थनार्थ बाह्यार्थव्यवसायं स्वपरप्रसिद्धं बाह्यस्येवेत्यादिना दृष्टान्तीकरोति । यथा बाह्याभिमुख्यन प्रकाशनं बाह्यव्यवसायो ज्ञानस्य ५ तथा स्वाभिमुख्येन प्रकाशनं स्वस्य व्यवसायः। उल्लेखमाह । करिकलभकमिति प्रमेयस्य अहमिति प्रमातुर्जानामीति प्रमितेः प्रतिभासम्तथात्मनेति प्रमाणाभिमतज्ञानस्यापि । इदमत्र हृदयम् । ज्ञानान्तरानपेक्षं यत्स्वरूपप्रकाशनं तदिह स्वव्यवसायित्वं वादिप्रतिवादिभ्यां ज्ञानस्याभिमतं परव्यवसायित्वान्यथानुपपत्तेः । तथाहि ज्ञानं स्वव्यवसायि परव्यवसायित्वात् यत्तु स्वव्यवसायि न
भवति न तत्परव्यवसायि यथा स्तम्भादि परव्यज्ञाने स्वव्यवसायित्वप्रसा धकमनमानमपदर्शितं वसायि च ज्ञानं ततः स्वव्यवसायीति । न ताव
तत्र दूषणोद्धारः । दत्र हेतुरसिद्धः । परव्यवसायित्वस्य ज्ञाने वादिप्रतिवादिभ्यां प्रतिपन्नत्वात् । नापि स्वरूपमात्रव्यवसायव्यावृते १५ सुखादिज्ञाने परव्यवसायित्वाभावानिखिलपक्षाव्यापकतया भागासिद्धोऽयं हेतुरिति शङ्कनीयम् । सुखादिसंवेदनस्यापि स्वस्मात्पृथग्भूतस्य सुखादेः परिच्छेदकत्वात्परव्यवसायित्वसिद्धेः । न च कुम्भादिवेदनस्यापि सर्वथा स्वपृथग्भूतार्थपरिच्छेदकत्वम् । सत्त्वप्रमेयत्ववस्तुत्वादिरूपेण कुम्भादेः संवेदनाभेदप्रतीतेः । अन्यथा तस्यासत्त्वप्रसक्तेः । २० कथञ्चित् पृथग्भूतत्वं तु सुखादिसंवेदनात्सुखादेरपि प्रतीयत एव । सुखादितत्संवेदनयोः कारणादिभेदव्यवस्थितेः । यथा च तयोः कारणादिभेदः सम्भवति तथाऽवस्तादेव चित्रविज्ञानवादविचारे विवेचितम् । नन्वेवं कुम्भादिज्ञानवत्सुखादिज्ञानस्यापि बहिर्भूतार्थपरिच्छेदकत्वात्ताभ्यामन्यस्य च विज्ञानस्यासम्भवारिक स्वस्य संवेदकं ज्ञानं स्या- २५ १ 'भेदात् ' इत्यधिक प. पुस्तके !
"Aho Shrut Gyanam"