________________
२१२
प्रमाणनयतत्त्वालोकालङ्कारः
[परि. १ सू. १७
दिति चेत् । न । तस्यैव कुम्भादिसुखादिज्ञानस्य स्वरूपसंवेदकस्य सतः परसंवेदकत्वोपगमात् स्वसंवेदनसिद्धेः । स्वपरव्यवसायकत्वानिखिलवेदनस्य ततः सुखादिज्ञानस्यापि परव्यवसायित्वसिद्धेनीय
भागासिद्धो हेतुः । नाप्यनैकान्तिकः । स्तम्भादेविपक्षात् स्वसाध्य५ व्यावृत्तौ परव्यवसायित्वहेतोरप्यत्यन्तं व्यावृत्तत्वात् । विरुद्धोऽपि नासौ साध्यविपर्ययान्यथानुपपन्नत्वं हि तल्लक्षणं न चात्र तदस्तीति ॥१७॥
स्वव्यवसायित्वमेव ज्ञानस्य स्पष्टदृष्टान्तोपदर्शनेन सावष्टम्भं समर्थयमानः प्राह---
कः खलु ज्ञानस्यालम्बनं बाह्यं प्रतिभातमभिमन्य. १० मानस्तदपि तत्प्रकारं नाभिमन्येत मिहिरालोक
वदिति ॥ १८ ॥ कः खलु लौकिकः परीक्षको वा । ज्ञानस्यालम्बनं गोचरम् । बाह्य ज्ञानाबहिर्भूतम् । प्रतिभातं परिस्फुरितं प्रकटीभूतमिति यावत् ।
अभिमन्यमानः स्वीकुर्वाण: । तदपि ज्ञानमपि । स प्रतिभातत्वलक्षणः १५ प्रकारः प्रतिनियतं स्वरूपं यस्य तत्तत्प्रकारं प्रतिभातमिल्यर्थः । नाभि
मन्येत किं तर्हि प्रतीतिमनुसरन्नभिमन्येतैव । किमिवेत्याह । मिहिरालोकवत् मार्तण्डालोकमिव । यथैव हि गिरिनगरगहनादिकं मिहिरालोकस्य विषयं प्रतिभातमभिमन्यमानैस्तैर्ज्ञानमपि प्रतिभातं
स्वीकर्तव्यमित्यर्थः । २० अत्राहुजैमिनीयाः ।
अये भवानत्र यथा कथञ्चित् जैमिनीयमतस्योपपा- स्वमन्दिरे गायतु मङ्गलानि ।। दनपूर्वक खण्डनम्। विचार्यमाणं तु न वेदनस्य
स्वसंविदात्मत्वमुपैति युक्तिम् ॥२२७।। १ प्रतिभातमभिमन्यमानैमिहिरालोकोऽपि प्रतिभातोऽभिमन्यते लौकिकपरीक्षकैस्तद्वज्ज्ञानस्य विषयं प्रतिभात इत्यादि कुम्भादिकं ' इत्याधिक चिहान्तगतं म. पुस्तके ।
"Aho Shrut Gyanam"