SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १८] स्याद्वादरत्नाकरसहितः २१३ कर्मत्वेनाप्रतीयमाने हि तस्मिन्परोक्षत्वमेवोपपद्यते । तथाहि ज्ञानं परोक्षं कर्मत्वेनाप्रतीयमानत्वात् । न खलु स्तम्भादिभाववत्कर्मत्वेन ज्ञानं स्वप्नेऽपि प्रतिभासते । प्रतिभासने वा करणात्मनो ज्ञानान्तरस्य परिकल्पना प्रसज्येत । तस्यापि प्रत्यक्षत्वे करणात्मकं ज्ञानान्तरं परिकल्पनीयमित्यनवस्था दुर्निवारा स्यात् । तस्याप्रत्यक्षत्वेऽपि ५ करणत्वे प्रथमज्ञाने किं दुश्चरितमालोचितं चेतस्विना । येनास्य परोक्षत्वे करणत्वं नानुमन्यते । तस्मादेतद्दोषसंश्लेषमनमिलषता ज्ञानस्य स्वव्यवसायित्वमुपेक्ष्य प्रतीत्यनुल्लङ्घनेन परोक्षरूपतैव स्वीकर्तव्या । इन्द्रियार्थसंप्रयोगादिसामग्रीतो हि क्रियास्वभावमात्मनि ज्ञानमुपजाय. मानं नित्यपरोक्षरूपमेवोपजायत इति । मीमांसकैरेवमवादि बुद्धि-पारोक्ष्यसिद्धावनुमाप्रमाणम् ।। एषा च दोषैर्व्यभिचारमुख्यैः कलङ्किता भाति यतीश्वराणाम् ॥२२८॥ तथा ह्यस्यामनुमायां कर्मत्वेनाप्रतीयमानत्वाख्यस्य हेतोरात्मना प्रमाणफलेन च व्यभिचारित्वं । तावत्कर्मत्वेनाननुभूयमानयोरप्यनयोः प्रत्यक्षत्वेनाङ्गीकरणात् । यदि पुनरेतयोः कर्मत्वेनाननुभूयमानयोरपि १५ कर्तृत्वेन प्रमाणफलत्वेन वानुभूयमानत्वात् प्रत्यक्षत्वमनुमन्यते । तर्हि प्रमाणत्वेनाभिमतस्य ज्ञानस्य कर्मत्वेनाननुभूयमानस्यापि करणत्वेनानुभूयमानत्वात्प्रत्यक्षत्वमनुमन्यतां विशेषाभावात् । अथ करणत्वेनानुभूयमानं ज्ञानं करणमेव स्यान्न प्रत्यक्षम् । तर्हि कर्तृप्रमाणफलरूपतयानुभूयमानयोरात्मप्रमाणफलयोः कर्तृप्रमाणफलरूपतैव स्यान्न २० प्रत्यक्षत्वमित्यप्यस्तु । तुल्याक्षेपसमाधानत्वात् । अपि चात्मनः प्रत्यक्षत्वे परोक्षज्ञानकल्पनायाः किं फलम् । आत्मन एव स्वरूपवबाद्यार्थग्राहकत्वप्रसिद्धेः । अथ कर्तुः करणमन्तरेण क्रियायां व्यापारासम्भवात्करणभूतपरोक्षज्ञानकल्पना न निष्फलेल्युच्यते । तदप्यसाधीयः । मनसश्चक्षुरादेश्चान्तर्बहिःकरणस्य सद्भावात्ताभ्यां २५ ज्ञानस्य परोक्षत्वेन विशेषाभावाच । अथ मनश्चक्षुरादिकायादेर "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy