Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १६ त्वम् । तस्य मिथ्यात्वे वा स्वसिद्धान्तविरोधापत्तिः । साधनविकलत्वं चात्र पक्षे दृष्टान्तस्य । उदाहरणीकृते निशीथिनीनाथद्वित्वे प्रतीतिजनकत्वेन प्रतिभास्यत्वस्य साधनस्याभावात् । न हि मिथ्यारूपं चन्द्रद्वित्वं कस्यचिदपि ज्ञानस्य जनकत्वेन प्रतीतमपि त्वेकत्वमेव शुद्धांशो५ स्तथाविधदोषसामग्रीसमवधानसामर्थ्यावित्वोल्लेखिनी, धियमुपजनयतीत्यवोचाम विपरीतख्यातिविचारावसरे । विरुद्धत्वं चास्य हेतोः, साध्यविपरीतसाधनात् । तथाहि विवादाधिरूढः प्रपञ्चो मिथ्या न भवति प्रतीतिजनकत्वे सति प्रतिभास्यत्वाद्य इत्थं स इत्थं यथात्मा तथा चाय तस्मात्तथेति । अपि च किं सम्यक्प्रतीयमानत्वं साधनत्वेन विवक्षितं मिथ्याप्रतीयमानत्वं वा । प्रथमपक्षे वाद्यसिद्धत्वं हेतोः । सम्यक्प्रतीयमानत्वस्थ प्रपञ्च त्वयानभ्युपगमात् । अभ्युपगमे वा विरुद्धत्वं स्यात् सम्यक्प्रतीयमानत्वस्य सत्यत्वेनैवाविनाभूतत्वात् । द्वितीयपक्षे पुनः प्रतिवाद्यसिद्धित्वम् । मिथ्याप्रतीयमानत्वस्य प्रपञ्चे स्याद्वादि
भिरनङ्गीकरणादिति । इदं च पर्यनुयोज्यो भवान्किमेतदनुमानं १५ प्रपञ्चाद्भिन्नमभिन्नं वा । यदि भिन्नम्, तर्हि सत्यमसत्यं वा, यदि सत्यम्,
तदा तद्दष्टान्तबलेन प्रपञ्चस्यापि सत्यत्वं स्यात् । अनुमानस्यापि हि सत्यत्वं प्रतीयमानत्वादेव भवद्भिरभ्युपेयं तच्च प्रपञ्चेऽप्यविशिष्टमिति कथं स न सत्यः स्यात् । अथासत्यम्, तत्रापि शून्यमन्यथाख्यातमनिर्वचनीयं वा । आद्यपक्षद्वये न साध्यसाधकत्वं सम्भवति । नृशङ्गवच्छुक्तिकाकलधौतवच्च । तृतीयपक्षोऽपि न श्रेयान् । अनिर्वचनीयत्वस्य प्रपञ्चतः प्रागेव प्रतिहतत्वात् । व्यवहारसत्यमिदमनुमानमतोऽसत्यत्वाभावात् स्वसाध्यसाधकमिति चेत् किमिदं व्यवहारसत्यं नाम । व्यवहृतिर्व्यवहारो ज्ञानं तेन च सत्यं तर्हि परमार्थिकमेतत् ।
ज्ञानजनकत्वेनार्थक्रियाकारित्वात् पारमार्थिकत्वे वाऽस्यैतद्दष्टान्तबलेनैव २५ प्रपञ्चस्यापि पारमार्थिकत्वं दुःप्रतिषेधं स्यात् । अथ व्यवहारः शब्द
स्तेन सत्यं व्यवहारसत्यमिति बधे । ननु शब्दोऽपि सत्यस्वरूपस्त.
"Aho Shrut Gyanam"

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274