Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji
View full book text
________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि १.सू. १६
तस्याप्रवृत्तेः । योगिप्रत्यक्षं समर्थमिति चेत् । पुरुषनानात्वमपि विधातुं तदेव समर्थमस्तु तत्पूर्वकागमश्चेत्यविरोधः । स्वसंवेदनमेवा - स्मदादेः स्वैकत्वविधायकमिति चेत् । तथाऽन्येषां स्वैकत्वस्य तदेव विधायकमनुमन्यताम् । तथाहि परेषां प्रत्यक्ष स्वैकत्वविधायकं प्रत्यक्षत्वादात्मप्रत्यक्षवत् । स्वैकत्वाविधायकत्वे वा तत्प्रत्यक्षस्य मत्प्रत्यक्षस्यापि कथं स्वैकत्वाविधायकत्वं स्यात् प्रत्यक्षत्वादित्यतः प्रत्यात्मं स्वसंवेदनस्यैकत्व विधायकत्व सिद्धेरात्मबहुत्वसिद्धिरात्मैकत्वसिद्धिर्वा । न च विधायकमेव प्रत्यक्षमिति नियमोऽस्ति । निषेधकत्वेनापि तस्य प्रतीयमानत्वादित्यनन्तरमेव निर्णेप्यते । तन्नागमवाक्यादप्यद्वैतसिद्धिः । १० अपि चाद्वैताभ्युपगमे पारमार्थिकमागमवाक्यं लिङ्गं वा न किञ्चित् प्रमाणभूतं भिन्नमस्ति यतः परमब्रह्मप्रतीतिः परीक्षकस्य स्यात् ।
१९६
५
अथ तस्य परमब्रह्मविवर्त्तत्वाद्विवर्त्तस्य च विवर्त्तिनोऽभेदेन परिकल्पनात्ततस्तत्प्रतीतिरिति मन्यसे । ननु कथं परिकल्पितादागमवाक्याल्लिङ्गाद्वा परमार्थपथावतारिणः परब्रह्मणः प्रतीतिः परिकल्पिताद्धूमादेः । १५ पारमार्थिकमेवागमवाक्यं लिङ्गं च परमब्रह्मत्वेनेति चेत् । तर्हि यथा तत्पारमार्थिकं तथा साध्यसममिति कथं पुरुषाद्वैतं व्यवस्थापयेत् । यथा च प्रतिपाद्यजनस्य प्रसिद्धं न तथा पारमार्थिकं द्वैतप्रसङ्गादिति कुतः परमार्थसिद्धिस्ततस्तामङ्गीकुर्वता पारमार्थिकमागमवाक्यं लिङ्गं च स्वीकर्त्तव्यम् तचऽचित्स्वभावम् । प्रतिपादकचित्स्वभावत्वे परसंवेद्यत्व२० विरोधात् प्रतिपादकचित्स्वभावत्वात्तत्सुखादिवत् । प्रतिपाद्यचित्स्वभावत्वे वा न प्रतिपादक संवेद्यत्वं प्रतिपाद्यसुखादिवत् । तस्य तदुभयचित्स्वभावत्वे प्राश्निकादिसंवेद्यत्व विरोधस्तदुभयसुखादिवत् । सकलजनचित्स्वभावत्वे वा प्रतिपादकादिभावानुपपत्तिरविशेषात् । प्रतिपादकादीनामविद्योपकल्पितत्वाददोषोऽयमिति चेत् । हन्त तर्हि यैव प्रति२५ पादकस्याविद्या प्रतिपादकत्वोपकल्पिका सैव प्रतिपाद्यस्य प्राश्निकादेश्चा
१' तथा ' इति प. म. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274