SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [ परि १.सू. १६ तस्याप्रवृत्तेः । योगिप्रत्यक्षं समर्थमिति चेत् । पुरुषनानात्वमपि विधातुं तदेव समर्थमस्तु तत्पूर्वकागमश्चेत्यविरोधः । स्वसंवेदनमेवा - स्मदादेः स्वैकत्वविधायकमिति चेत् । तथाऽन्येषां स्वैकत्वस्य तदेव विधायकमनुमन्यताम् । तथाहि परेषां प्रत्यक्ष स्वैकत्वविधायकं प्रत्यक्षत्वादात्मप्रत्यक्षवत् । स्वैकत्वाविधायकत्वे वा तत्प्रत्यक्षस्य मत्प्रत्यक्षस्यापि कथं स्वैकत्वाविधायकत्वं स्यात् प्रत्यक्षत्वादित्यतः प्रत्यात्मं स्वसंवेदनस्यैकत्व विधायकत्व सिद्धेरात्मबहुत्वसिद्धिरात्मैकत्वसिद्धिर्वा । न च विधायकमेव प्रत्यक्षमिति नियमोऽस्ति । निषेधकत्वेनापि तस्य प्रतीयमानत्वादित्यनन्तरमेव निर्णेप्यते । तन्नागमवाक्यादप्यद्वैतसिद्धिः । १० अपि चाद्वैताभ्युपगमे पारमार्थिकमागमवाक्यं लिङ्गं वा न किञ्चित् प्रमाणभूतं भिन्नमस्ति यतः परमब्रह्मप्रतीतिः परीक्षकस्य स्यात् । १९६ ५ अथ तस्य परमब्रह्मविवर्त्तत्वाद्विवर्त्तस्य च विवर्त्तिनोऽभेदेन परिकल्पनात्ततस्तत्प्रतीतिरिति मन्यसे । ननु कथं परिकल्पितादागमवाक्याल्लिङ्गाद्वा परमार्थपथावतारिणः परब्रह्मणः प्रतीतिः परिकल्पिताद्धूमादेः । १५ पारमार्थिकमेवागमवाक्यं लिङ्गं च परमब्रह्मत्वेनेति चेत् । तर्हि यथा तत्पारमार्थिकं तथा साध्यसममिति कथं पुरुषाद्वैतं व्यवस्थापयेत् । यथा च प्रतिपाद्यजनस्य प्रसिद्धं न तथा पारमार्थिकं द्वैतप्रसङ्गादिति कुतः परमार्थसिद्धिस्ततस्तामङ्गीकुर्वता पारमार्थिकमागमवाक्यं लिङ्गं च स्वीकर्त्तव्यम् तचऽचित्स्वभावम् । प्रतिपादकचित्स्वभावत्वे परसंवेद्यत्व२० विरोधात् प्रतिपादकचित्स्वभावत्वात्तत्सुखादिवत् । प्रतिपाद्यचित्स्वभावत्वे वा न प्रतिपादक संवेद्यत्वं प्रतिपाद्यसुखादिवत् । तस्य तदुभयचित्स्वभावत्वे प्राश्निकादिसंवेद्यत्व विरोधस्तदुभयसुखादिवत् । सकलजनचित्स्वभावत्वे वा प्रतिपादकादिभावानुपपत्तिरविशेषात् । प्रतिपादकादीनामविद्योपकल्पितत्वाददोषोऽयमिति चेत् । हन्त तर्हि यैव प्रति२५ पादकस्याविद्या प्रतिपादकत्वोपकल्पिका सैव प्रतिपाद्यस्य प्राश्निकादेश्चा १' तथा ' इति प. म. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy