SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १६] स्याद्वादरत्नाकरसहितः कृतचेतनाचेतनरूपवस्तुमध्यान्चेतनेष्वेव हि स्वतः प्रतिभासमानत्वं स्याद्वादिनः सिद्धं न पुनरचेतनेषु । परतश्चेत्, तर्हि विरुद्धो हेतुः । परतः प्रतिभासमानत्वस्य भेदाविनामावित्वात् । सर्वं खल्विदं ब्रह्मेत्याद्यागमोऽपि नाद्वैतसाधनसमर्थः प्रत्युत द्वैतमेवायं साधयति । सर्वस्य प्रसिद्धस्याप्रसिद्धेन ब्रह्मत्वेन विधानात् । सर्वथों प्रसिद्धस्य ५ विधानायोगादेकान्ताप्रसिद्धवत् । प्रसिद्धाप्रसिद्धयोश्च भेदाद्वैतसिद्धिरेव । द्वैतप्रपञ्चारोपव्यवच्छेद एवानेनागमेन क्रियत इति चेत्, नैवम् । एवमपि व्यवच्छेद्यव्यवच्छेदकयोः सद्भावसिद्धया द्वैतसिद्धेरनिवारणात् । किं च यथा अस्मादागमात्पुरुषाद्वैतसिद्धिस्तथा. सन्त्यनन्ता जीवा इत्यागमान्नानाजीवसिद्धिरस्तु । अथ पुरुषाद्वैतविधेस्तदागमेन प्रकाश- १० मानात् प्रत्यक्षस्यापि विधातृतया स्थितस्य तत्रैव प्रवृत्तेस्तेन तस्याविरोधात्ततः पुरुषाद्वैतनिर्णय इति चेत्, नानागमस्यापि तेनाविरोधानानाजीवनिर्णयोऽस्तु । तथाहि । “आहुर्विधातृ प्रत्यक्षं न निषेछ विपश्चितः । न नानात्वागमस्तेन प्रत्यक्षेण विरुद्धयते ॥१॥" यदि ह्यपरप्रतिषेधे प्रत्यक्ष प्रवर्तेत तदा तेन तदभावविनिश्चयावे- १५ न्नानात्वविधायकागमस्य विरोधो न चैवम् अस्य सर्वत्र विधायकत्वेनात्र व्यवस्थानात् । एवं च नानेन नानात्वविधायकस्यागमस्य विरोधः सम्भवत्येकत्वविधायिन इव विधायकत्वाविशेषात् । कथमेकत्वमनिषेधप्रत्यक्षं नानात्मतां विदधातीति चेत् । नानात्वमनिषेधदेकत्वं कथं तद्विदधीत । तस्यैकत्वविधानमेव नानात्वप्रतिषेधकत्वमिति चेत् । २० तर्हि नानात्वविधानमेवैकत्वप्रतिषेधकत्वमस्यास्तीति समः समाधिः । किं पुनः प्रत्यक्षमात्मनां नानात्वस्य विधायकमिति चेत् । तदेकत्वस्य किं विधायकमित्यप्युच्यताम् । न ह्यस्मदादिप्रत्यक्षमिन्द्रियजं मानसं वा स्वसंवेदनमेक एवात्मा सर्व इति विधातुं समर्थं नानात्मभेदेषु १. सर्वदा' इति भ. पुस्तके पाठः। २ . विधायकत्वेनैव' इति प. म. पुस्तकयोः पाठः। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy