SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ तेषामन्यत्वेन भोक्तृत्वायोगात् । भोक्तृत्वे चार्वाकमतानुषङ्गः । तथा च शिशिरतरुमृणालीजालकैः कीर्णवक्षा. स्तरुणतरणितापक्लान्तखल्वाटमूर्द्धा । अनुभवति विशिष्ट वक्षसि प्रीतिलक्ष्मी शिरसि किमपि कष्टं चेति तावत् प्रतीतम् ॥ १८९ ।। तदिह यथैकत्रात्मन्यारोपितभेदहेतुका भवति । अद्वैतद्वेषिमते सुखादिभेदव्यवस्थेयम् ।। १९० ॥ एकत्रैव ब्रह्मणि स्वस्थरूपे क्त्यामुष्मिन् कोविदः कीर्त्यमाने । १० तद्वन्मिथ्याभेदमादर्शयन्ती किं नेष्टा ते बन्धमोक्षव्यवस्था ॥ १९१ ॥ आधारः सुखदुःखयोरथ भवेद्वक्षःस्थलीमस्तके तद्भेदादुपपत्स्यतेऽनुपहता भेदव्यवस्था तयोः । नैतद्वाच्यमचेतनादिह यतः स्यातां न ते भोक्तृणी तत्त्वे वाभिमते कथं नु भवतश्चार्वाकता नो भवेत् ॥१९२।। इत्यात्मब्रह्म सिद्धं परमसुखमयं नित्यचैतन्यरूपं सर्वाविद्याविलासे प्रलयमुपगते सर्वतो यच्चकास्ति । तस्माद्भेदावभासस्त्रिजगति शशभूद्युग्ममायेन्द्रजालस्वप्नाद्याभासकल्पः कथमिह सुधियः कुर्वते पक्षपातम् ॥१९३॥ ब्रह्मप्रसाधनविधौ विविधं व्यधायि याक्तिपञ्जरमनन्तरमेतदेवम् ॥ तज्ज्वालजालजटिलज्ज्वलनप्रकारे प्रत्युत्तरेऽत्र परितः पततादिदानीम् ।। १९४ ॥ .. तथा हि यत्तावत्समस्तं चेतनाचेतनस्वभावं वस्तु प्रतिभासान्तःप्रविष्टमित्याद्यनुमानमदर्शितम् । तत्र स्वतः प्रतिभासमानत्वं हेतोः २५ परतो वा । स्वतश्चेत्, तर्हि प्रतिवादिनो भागासिद्धो हेतुः । पक्षी "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy