SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १६] स्याद्वादरत्नाकरसहितः । तस्मादेकत्वसंवित्तेरन्यथानुषपत्तितः । एकरूपं परं ब्रह्माङ्गीकर्तव्यं परैरपि ॥ १८७ ॥ इदमेव परां विद्यामामनन्ति मनीषिणः । एतस्य श्रवणादिभ्यः प्राप्तिः समुपजायते ॥ १८८ ॥ ननु विद्यास्वभावत्वे ब्रह्मणस्तदभिन्नस्वभावानां संसार्यात्मनामपि ५ विद्यास्वभावत्वात्तत्प्राप्त्यर्थानां श्रवणमननादीनां निरुपयोगित्वमिति चेत्, तदचारु । विद्यास्वभावत्वेऽप्यस्य श्रवणमननादीनां निरुपयोगित्वासम्भवादविद्याव्यावर्तनफलत्वात्तेषाम् । अविद्याव्यावर्त्तनमेव च विद्याप्राप्तिः । यत एवाविद्या ब्रह्मणोऽर्थान्तरभूता तत्त्वतो नास्त्यत एव तैया॑वय॑ते । तत्त्वतस्तस्याः सद्भावे न कश्चिद्ध्यावर्त्तयितुं तां शक्नु- १० यात् ब्रह्मवत् । सवेरेव च वादिभिरतात्त्विकानाद्यविद्याया व्यावृत्त्यर्थं मुमुक्षूणां प्रयासः स्वीकृत एव । अस्याः स्वावच्छेदिकाया व्यावृत्तौ परमात्मैकस्वरूपतायां संसार्यवतिष्ठते, घटाद्यवच्छेदकस्य व्यावृत्तौ शुद्धाकाशरूपतायामिवाकाशम् । न च श्रवणमननादीनां भेदरूपत्वेनाविद्यास्वभावत्वात् कथमविद्याव्यावर्तकत्वं यतो विद्याप्राप्तिहेतुत्वम- १५ भिधीयतेति वाच्यम् । यथैव हि रजःसम्पर्ककलुषेऽम्भसि द्रव्यविशेषचूर्णरजोरूपं प्रक्षिप्तं रजोन्तराणि प्रशमयत्स्वयमपि प्रशाम्यति स्वस्वरूपावस्थामुपनयति तथैवानाद्यविद्यासंश्लेषमलिने संसार्यात्मनि श्रवणमननादिभिरविद्याविद्यान्तराणि समुच्छिन्दती स्वयमपि समुच्छिद्यमाना परमात्मैकस्वरूपतामुपढौकयतीति । न चाद्वैते बन्धमोक्षादिभेदव्यव- २० स्थाऽनुपपन्नेति वचनीयम् । समारोपितादपि भेदाढ़ेदव्यवस्थोपपत्तेः । यथा हि द्वैतवादिनां वक्षसि मे सुखं शिरसि मे दुःखमित्येकस्यात्मनः समारोपितभेदनिमित्ता सुखादिभेदव्यवस्था तथाऽस्माकं ब्रह्मणोऽपि बन्धमोक्षादिभेदव्यवस्था भविष्यति । ननु वक्षःप्रभृतीनामेव सुखाद्यधिकरणत्वं तेषां च भेदात्तव्यवस्था युक्तैवेति चेत् । तदप्ययुक्तम् । २९ १ सद्भावेऽपि ' इति भ. पुस्तके पाठः । १३ "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy