________________
१९२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ स. १६ क्रमेण, यतोऽनन्तानां प्रतियोगिनां क्रमेण प्रतिपत्तावेवोपक्षीणपुरुषायुषः प्रतिपत्ता कथं कदापि कस्यापि भेदं प्रतिपद्येत । तथाऽसौ भेदः पदार्थेभ्यो भिन्नः स्यादभिन्न उभयरूपोऽनुभयरूपो वा । यदि भिन्नः, तत्रापि किमसौ स्वतो भिद्यते भेदान्तरेण वा । यदि स्वतस्तदा पदाथैः किमपराद्धं येनैषां स्वत एव भेदो नानुमन्यते । अथ भेदान्तरेण, तदाऽनवस्था । तस्यापि भेदान्तरेणार्थेभ्यो भेदप्रसक्तेः । अथाभिन्नः, तदा पदार्थमात्रमेव भवेत् । नाप्युभयरूपः, उभयपक्षनिक्षिप्तदोषानुषङ्गात् । भेदाभेदयोः परस्परपरिहारस्थितिलक्षणत्वेनैकत्रैकदा सम्भवाभावाच्च । नाप्यनुभयरूपः, विधिप्रतिषेधयोरेकतरप्रतिषेधेऽन्यतरविधेरवश्यंभावित्वात् । अन्यच्च समस्तार्थानां किमेक एव भेदः प्रत्यर्थं भिन्नो वा । यद्येक एव, तर्हि तम्याभेदात्तेषामप्यभेद एव स्यात् । अथ प्रत्यर्थं भिन्नः, किं स्वतो भेदान्तरेण वा । पक्षद्वयेऽपि प्राक् प्रतिपादितमेव दोषद्वयमुपढौकनीयम् । अपि च पदार्थानां भेदः किं देश
भेदात्कालभेदादाकारभेदाद्वा भवेत् । न तावद्देशभेदात्स्वरूपेणाभिन्नानां १५ भावानामन्यभेदेऽपि भेदायोगात् । नान्यभेदोऽन्यत्र संक्रामति असंकीर्ण
भावव्यवस्थाभ्युपगमविलोपप्रसङ्गात् । किंच देशस्यापि किमपरदेशभेदतो भेदः स्वतो वा । यद्यपरदेशभेदतः, तर्हि तद्देशस्याप्यपरदेशभेदाढ़ेद इत्यनवस्था । अथ स्वत एव देशस्य भेदः, तदा पदार्थभेदोऽपि स्वत एवास्तां किं देशभेदात्तद्भेदकल्पनया । ततो न देशभेदाद्भावभेदः । एवं कालाकारभेदाभ्यामपि न भावानां भेदः । प्रोक्तदोषाणामिहापि समानत्वात् ।।
एवं विचार्यमाणोऽसौ भेदो न व्यवतिष्ठते । अविद्यानिर्मितं तस्मात् स्फुटं तत् प्रतिभासनम् ॥ १८५ ॥
भेदसिद्धौ न सामर्थ्यमेवं चास्य विभाव्यते । २५ ततो नैकत्वमेतेन कथंचन विरुद्धयते ॥ १८६ ॥
"Aho Shrut Gyanam"