________________
परि. १. सू. १६]
स्याद्वाद्रत्नाकर सहितः
"3
तथाहि समस्तं चेतनाचेतनस्वभावं वस्तु प्रतिभासान्तः प्रविष्टं प्रतिभासमानत्वात् यद्यथोक्तसाधनं तद्यथोक्तसाध्यं यथा प्रतिभासस्वरूपं प्रतिभासते च समस्तं चेतनाचेतनस्वभावं वस्तु तस्माद्यथोक्तसाध्यसम्बद्धम् । न चात्र हेतुरसिद्ध: । साक्षादसाक्षान्च समस्तवस्तुनोऽप्रतिभासमानत्वे सकलविकरूपगोचरातिक्रान्तत्वेन वक्तुमशक्तेः । आगमोऽप्यस्य प्रतिपादकः समस्त्येव “सर्वं खल्विदं ब्रह्म नेह नानास्ति किंचन । आरामं तस्य पश्यन्ति न तं पश्यति कश्चन ॥ १ ॥ इत्यादि । तदेव च परमात्मरूपं सकललोकसर्गस्थितिप्रलयहेतुः तदाह । "ऊर्णनाभं इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव प्रक्षः स हेतुः सर्वजन्मनाम् ॥ २ ॥ " इति । अपि चेन्द्रियसन्निपाता. १० नन्तरसमुद्भूताविकल्पकाध्यक्षेण परानपेक्षतयैकत्वमेव भावानां प्रतीयते तच्चैकप्रतिभासान्तः प्रवेशाभावे तेषां कथं सम्भवेत् । भेदाः पुनः परापेक्षतया प्रतीयन्ते । ततश्चैतत् प्रत्ययरूपत्वेनाप्रमाणभूतत्वाद्भेदमसाधयन्नैकत्वं निरुणद्धि । निन्दा च श्रूयते भेददर्शिनः, “मृत्योः स मृत्युमाप्नोति इह नानेव पश्यति" इत्यादिना । न चाभेदशंसिनः १५ प्रत्यक्ष विरुद्धत्वमस्यागमस्य वक्तुं शक्यम् । न ह्यन्यनिषेधे प्रत्यक्षं प्रभवति । स्वरूपमात्रग्रहणपरिसमाप्तव्यापारत्वात् । पररूपनिषेधमन्तरेण च दुरुपपादत्वाद्भेदे कुण्ठमेव प्रत्यक्षमिति कथमभेदाभिधायिनमेवमागमं विरुन्ध्यात् । तदुक्तं । “आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चितः । नैकत्व आगमस्तेन प्रत्यक्षेण विरुद्धयते ॥ १ ॥ " इति । किंच २० क्वचिद्भावे भावान्तरेभ्यो भेदः प्रतिपद्यमानः क्रमेण यौगपद्येन वा प्रतिपद्यते । न तावद्यौगपद्येन, भेदप्रतिपत्तेः प्रतियोगिग्रहणसापेक्षत्वात् । न च प्रतियोगिभावान्तराणामशेषाणां युगपद्ग्रहणं सम्भवति । नापि
१ तत्त्वसंग्रहे पुरुषपरीक्षायां प्रथमश्लोको भूयसांशेनैतत्सदृश: । २ 'काध्यक्षतः इति प. पुस्तके पाठः । ३ ' ततश्चैतत्प्रत्ययः कल्पनाप्रत्ययरूपत्वेनाप्रमाणभूतत्वात् ' इति प. पुस्तके पाठ: 1
"Aho Shrut Gyanam"
१९१