________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ प्रसङ्गात् । प्रमाणानुत्पादोऽपि ज्ञातः सन् सर्वाभावं गमयत्यज्ञातो वा । न तावदज्ञातोऽतिप्रसङ्गात् । अथ ज्ञातः, कुतस्तज्ज्ञानमन्यतः प्रमाणाभावात् स्वतो वा । प्रथमपक्षेऽनवस्थातःप्रस्तुताभावस्याप्रतिपत्तिः। स्वतस्तज्ज्ञाने सर्वाभावस्यापि स्वत एव ज्ञानप्रसङ्गात् । प्रमाणा५ भाचोपन्यासो व्यर्थः स्यात् सकलशून्यताव्याघातश्च ! तथाभूतस्यास्यैव
प्रमाणप्रमेयरूपत्वप्रसक्तेः प्रमाणप्रमेयपदाव्यपदेश्यः सर्वाभाव इति न वाच्यम् । स्वतः स्वरूपं प्रतिपद्यमानस्य तस्य प्रमाणप्रमेयपदाभ्यामवश्यव्यपदेश्यत्वात् । तत्पदाव्यपदेशत्वे च तस्यासत्त्वप्रसक्तिव्योमकुसुमवत् । किं चात्रानुमाने धम्मिहेतुदृष्टान्तानां ग्राहक प्रमाणमस्ति न वा । यद्यस्ति, कथं सकलशून्यता । अथ नास्ति, कथं प्रकृतानुमानप्रवृत्तिः । प्रमाणाभावे हि धर्मिमहेतुदृष्टान्तानां सिद्धेरभावादाश्रयासिद्धतादिदोषदूषितमनुमानं कथं नाम प्रवर्तितुमुत्सहेत । अनुमानाभावे च कथं सकल. शून्यतासिद्धिः । अथ विचारात्सकलशून्यता साध्यते । ननु विचारः
पारमार्थिकः समस्ति न वा । समास्ति चेत्, कथं सकलशून्यता । अथ १५ नास्ति, कुतस्त्या तर्हि तसिद्धिः। अथ प्रसङ्गसाधनात् सकलशून्यता
सिद्धिरास्थीयते । दुःस्थमेतत् । सकलशून्यतावादिनः स्वपरविभागासम्भवे प्रसङ्गसाधनस्यैवासम्भवात् परस्येष्टेनानिष्टापादनलक्षणत्वात्तस्य । कथं चैष दुरात्मा प्रमाणप्रमेयप्रपञ्चं प्रतीतिपर्यकोत्सङ्गसङ्गतमनङ्गीकृत्य
स्वप्नदशायामप्यननुभूयमानां सकलशून्यतामङ्गीकुर्वाणः प्रामाणिक२० परिषदि प्रवेशमपि प्राप्नुयात् ।
तस्मादयं नीलसितादिरर्थः प्रमाणमुद्रामवलम्बमानः । अबाध्यमानश्च भुवि प्रसिद्धो न शून्यता नाम समस्ति काचित्। १८३। अथ परमब्रह्मवादिनः प्राहुः--
_भावग्रामो घटादिबहिरिह घटते वस्तुवृत्त्या न कश्चिपरमब्रह्मवादिनो वेदा
पदा तन्मिथ्यैष प्रपंचस्तमपि च मनुते तत्त्वभूतं जनोऽयम्। २५ न्तिनो मतस्य उपपादनपूर्वक खण्डनम्। प्रौढाविद्याविलासप्रबलनरपतेः पारवंश्यं गतः सन् आत्माद्वैतं तु तत्त्वं परमिह परमानन्दरूपं तदस्तु
॥१८४ ॥
"Aho Shrut Gyanam"