________________
परि. १ स. १६]
स्याद्वादरत्नाकरसहितः
वस्तुव्यवस्थितिमुपैषि यदि प्रतीत्या ___ बाह्यं तदा किमिति वस्तु पराकरोषि । बालाबलाप्रभृतिरप्यखिलः पदार्थान्
बाह्यान् जनो यदवगच्छति पीतमुख्यान् ॥ १८० ॥ मिथ्याप्रतीतिरियमित्यपकर्णनीयं
पन्नास्ति काचिदपि बाधकबुद्धिरत्र । मध्यक्षणस्थितिमितिप्रतिभास एव
शङ्कथेत बाधकतया न च विद्यतेऽसौ ॥ १८१ ॥ असन् शक्तः कर्तुं कथय किमतो बाधविधुरान्
सिताद्यर्थोद्वाराननुभवसुधास्वादजनितान् । अथासन्नप्येष प्रभवति सखे बाधनविधौ
न किं बाधेतैवं तव मतमपि ब्रमणि मतिः ।। १८२ ।। इति संग्रहवृत्तानि । अथ केचित्पुनः संविन्मात्रस्याप्यपलापेन सकलशून्यतामाहुः ।
_____ सापि नोपपद्यते । यतस्तस्याः साधकं किञ्चि- १५ सकलशून्यतामभ्युपगच्छ
णत्प्रमाणमस्ति न वा । यदि नास्ति कथं सा तः शूर . खण्डनम् । सिद्धयेत् । प्रमाणनिबन्धनत्वाद्विदुषामिष्टसिद्धेः । अथान्ति, तदा कथं सकलशन्यता । प्रत्यक्षादिप्रमाणस्य तज्जनकस्येन्द्रियाद्देश्च सद्भावे सकलशून्यताविरोधात् । किञ्च । सकलशून्यता प्रमाणप्रमेययोरनुपलब्धितो, विचारात्, प्रसङ्गसाधनाद्वा स्यात् । २० प्रथमपक्षे केयं तयोरनुपलब्धिः । तद्ग्राहकप्रमाणाभाव इति चेत्, सोऽपि किं संशयादयः प्रत्ययाः प्रमाणानुत्पादो वा । तत्राद्यः पक्षो न युक्तः। संशयादिसद्भावाभ्युपगमे सकलशून्यतायाः सलिलाञ्जलिदान
१ संग्रहवृत्तानीति पदनिर्देशादेवं प्रतीयते यदिमे श्लोकाः स्वयमन्येन वा कृते संग्रहनन्थे प्रणीता इति ।
"Aho Shrut Gyanam"