________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. १ सू. १६
वसरं समर्थयिष्यामहे । यदि बोत्पादादयो धर्माः सर्वथा न सन्ति तदा त्वदङ्गीकृतस्य स्वसंवेदनमात्रस्याप्यभावः प्रसज्यते । उत्पादव्ययनौव्ययुक्तस्यैव सत्त्वात् । सर्वथाप्यसत्त्वे च तेषां स्पष्टप्रतिभासविषयता पुरुषविषाणस्येव कथं नाम स्यात् स्पष्टप्रतिभासविषयत्वे वा ५ तेषां स्वसंवित्स्वरूपस्येव सर्वथाप्यसत्त्वं न स्यात् । न च स्पष्टप्रतिभासविषयत्वमेषामसिद्धम् । कनकादौ कुण्डलाद्युत्पादादीनां महिलाहालिकगोपालमुखैरपि स्पष्टप्रतिभास विषयतया सुप्रतीतत्वात् । अपि च उत्पादादीनां धर्माणामसत्त्वे स्वीक्रियमाणे सम्वन्धाभावतस्तस्मिन् संवेद्यमाने न ते नियमेन संवेद्येरन् । यस्य येन सम्बन्धो नास्ति तस्मिन् ९० संवेद्यमाने नासौ नियमेन संवेद्यते । यथा ज्ञानात्मनि संवेद्यमाने कूर्म - रोमसमूहः । नास्ति च सम्बन्धो ज्ञानेन सार्धमसद्रूपाणामुत्पादाद्याकाराणामिति । अस्ति चैतेषां ज्ञाने संवेद्यमाने नियमेन संवेदनमतः समस्ति कश्चित्तेषां तेन सह सम्बन्धः । स च परमार्थसत्त्वमन्तरेण न सम्भवतीति सिद्धं तेषां परमार्थसत्त्वम् ।
१५ संवेद्यमानानामप्येषामसत्त्वे ज्ञानस्वरूपेऽप्यसत्त्वप्रसङ्गान्निखिलशून्यतापत्तिर्भवेत् । यत्क्तमनाद्यविद्यावासनाप्रभावादि
ग्राह्यग्राहकभाववि
त्रस्य खण्डनम् |
कलस्य संचिन्मा- त्यादि । तदप्यसुन्दरम् | अविद्यायाः पूर्वमेव परास्तत्वात् । अपि च स्वस्थसंविन्मात्रं कुतोऽभ्युपगतम् । प्रतीतेश्चेन्नैवम् । स्वस्थसंविन्मात्रस्य कदाचिदप्यप्रतीतेः । २० प्रतीत्या च वस्तु व्यवस्थापयता बाह्यमपि वस्तु स्वीकर्त्तव्यम् । तस्यापि प्रतीतौ परिस्फुरणात् । न चेयमसत्यरूपा प्रतीतिः । बाधकाभावात् । विपरीतार्थोपलम्भो हि बाधको न चात्रासौ समस्ति । तद्विपरीतस्य मध्यमक्षणस्थायिनः संविन्मात्रस्य स्वमेऽप्युपलम्भाभावात् । अतः कथमसताऽनेनानुभूयमानस्य बाह्यार्थस्य बाधा | असतापि बाधाकल्पने २५ नित्यनिरंशव्यापिपरमब्रह्मोपलम्भेनाऽसतापि त्वदभिमतमध्यक्षणस्थायिसंविन्मात्रस्य बाधा कथं न भवेद्विशेषाभावात् ।
"Aho Shrut Gyanam"
૨૮