________________
परि. १ सु. १६] स्याद्वादरलाकरसहितः
१८७ इह स्वमावस्थाप्रभवमतिवद्विश्वभवभू
त्प्रतीतीनां सिद्धेद्यदि किल निरालम्बनविधिः । तदा स्वप्नावस्थाविलसदनुमानप्रतिमया ___ भवेन्न भ्रान्तत्वं कथमिव समस्तानुमितिषु ॥ १७६ ॥ अथाप्ययुक्तं किमिवोपजातमेवं सतीति प्रतिपादयेथाः। न किंचिदन्यद्भवदीयमेकं मुक्ता निरालम्बनतानुमानम् ॥ १७७ ।। भ्रान्तं भवत्वेतदथाऽनुमानं तथापि का नाम तवार्थसिद्धिः। मूलाद्विलूने दशकण्ठकण्ठपीठे धूणामधिपस्य यासीत् ॥ १७८ ॥
किं च स्वप्नप्रत्यये साध्यसाधनधर्मग्राहकप्रत्ययस्य निरालम्बनत्वे साध्यसाधनोभयविकलता दृष्टान्तस्य प्रसज्यते । दृष्टान्तग्राहकस्य च १० प्रत्ययस्य निरालम्बनत्वे दृष्टान्तस्यैवाभावादसाधारणानकान्तिकत्वं हेतोः। साध्यभिधम्मोभयप्रत्ययानां निरालम्बनत्वे वाऽप्रसिद्धविशेष्योऽप्रसिविशेषणोऽप्रसिद्धोभयश्च पक्षः स्यात् । अपि च स्वप्नदृष्टान्तेनाखिलप्रत्ययानां बहिमिथ्यात्वाभ्युपगमे स्वरूपेऽपि तत्प्रसङ्गः । तथाहि यत्प्रतिभासते तन्मिथ्या यथा स्वप्नः प्रतिमासते च विज्ञानस्वरूपमिति १५ प्रतिभासाविशेषेऽपि स्वरूपप्रतिभासस्य सत्यत्वाङ्गीकारेऽर्थप्रतिभासस्यापि सत्यत्वं किं नाङ्गीक्रियेत । विशेषाभावात् । ततश्च । अत्यनल्पनिजकूटकल्पनाविप्लवैकमृगतृष्णिकाकुलः । मुग्ध माध्यमिक मा मुधाश्रमीः स्वच्छवेदनजलौघवाच्छया ॥१७९॥
यच्चार्थानामेकानेकस्वरूपविचारासहत्वादित्याद्युपन्यस्तम् । तदपि न २० प्रशस्तम् । एकत्वस्यानेकत्वस्य च विचार्यमाणस्य तत्रासम्भवेऽपि जात्यन्तरस्यैकत्वानेकत्वस्य सम्भवेन सत्त्वाविरोधात्। यदप्युक्तमुत्पादादिधर्मरहिताश्चैते इत्यादि । तदप्यनुपपन्नम् । द्रव्यरूपतया सतां पर्यायरूपतया चासतां भावानामुत्पादादिधर्मसद्भावोपपत्तेः । सर्वथा सतामसतां वा वस्तूनामुत्पादादयो धर्माः ने कथञ्चिदुपपद्यन्त इति यथा- २५ १'न' इति प. पुस्तके नास्ति ।
"Aho Shrut Gyanam"