SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वा लोकालङ्कारः [ परि. १ सू. १६ नत्वस्य प्रत्यक्षतः प्रतीयमानत्वात् । हेतोश्च स्वरूपासिद्धत्वम् । हेतुस्वरूपग्राहकप्रमाणस्यापि प्रत्ययत्वेन निरालम्बनत्वात् । अथैतद्दोषपरिजिहीर्षया तग्राहकप्रत्ययस्य सालम्बनत्वमङ्गीक्रियते तर्हि तेनैव प्रत्ययत्वमनैकान्तिकम् । सन्दिग्धानैकान्तिकं च, प्रत्ययत्वसालम्बनत्वयोविरोधासिद्धेः । विरुद्धं वा प्रत्ययत्वस्य सालम्बनत्वेनैव व्याप्तस्य प्रत्ययान्तरालम्बनप्रत्यये दर्शनात् । अथ स प्रत्यय एव नास्ति यः प्रत्ययान्तरालम्बनमिति कथं तत्र विपरीतव्याप्तिप्रतिपत्तिरिति चेत् । तत्किमिदानीं स्वप्नादिप्रत्ययाः पुरुषान्तरप्रत्ययाश्च न प्रतीयन्त एव । तथात्वे हि कथं व्यवहारः । अथ क एवमाह न प्रतीयन्ते । किन्तु १० नालम्बनीभवन्तीति ब्रूम इति चेत् । अहो तवायं तर्कवत्त्वोत्प्रेक्षणप्रकारो यत्प्रतीयन्ते न चालम्बनीभवन्तीति । न हि प्रतीयमानत्वादन्यदेवालम्बनत्वम् । संवेदनस्यापि निरालम्बनत्वप्रसङ्गात् । अपि च प्रतीयते स्वरूपं पररूपं च यैस्ते प्रत्ययास्तद्भावः प्रत्ययत्वं एवं च निरालम्बनत्वविरुद्धेन सालम्बनत्वेनैव प्रत्ययत्वस्य व्याप्तेः कथं न विरुद्धमेतत् । १५ दृष्टान्तश्च साध्यविकलः । स्वमप्रत्ययस्यापि बाह्यार्थालम्बनत्वेन निरालम्बनत्वाप्रसिद्धेः । द्विविधो हि स्वमः सत्यस्तद्विपरीतश्च । प्रथमो देवताविशेषकृतो धम्र्माधिम्र्मकृतो वा कश्चित्साक्षादर्थाव्यभिचारी । यद्देशकालाकारतया स्वमे प्रतिपन्नोऽर्थस्तद्देशकालाकारतया जाग्रदशायां तस्य प्राप्तिसिद्धेः । कश्चित्पुनः परम्परयाऽर्थाव्यभिचारी । राजादि२० दर्शनेन स्वाध्यायनिगदितस्य कुटुम्बवर्धनादेः प्राप्तिहेतुत्वादनुमानवत् । योऽपि वातपित्ताद्युद्रेकजनितोऽसत्यत्वेन प्रसिद्धः स्वमः । सोऽपि नार्थमात्रव्यभिचारी । न हि सर्वथाप्यननुभूतेऽर्थे स्वप्नोऽपि समुपजायत इति न स्वप्नप्रत्ययो निरालम्बनो युक्तः । १८६ ५ २५ अस्तु स्वममतिर्यद्वा निरालम्बनतास्पदम् । तथापि तदवष्टम्भात्साध्यसिद्धिर्न बन्धुरा ॥ १७५ ॥ तथाहि- "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy