SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १६ ] स्याद्वादरत्नाकरसहितः १८५ णत्वायोगात् । न हि पारिभाषिकं ज्ञानस्य प्रमाणत्वं निरालम्बनत्वं किं तहि येन प्रत्येयं परिच्छिद्यते तत्प्रमाणम् । यत्र तु न किञ्चित् प्रतिभाति तन्निरालम्बनमुच्यते । तत्कथं नानयोविरोधः । स्वात्मालम्बनापेक्षया निरालम्बनत्वाभिधानाविरोध इति चेत् । तत्किमिदानी स्वात्मापेक्षयैवास्थानुमानत्वम् । एवमिति चेत् । न तर्हि स्वात्मैक- ५ विषयेणानेन प्रत्ययान्तराणां निरालम्बनत्वं वा सिद्धयत्यविषयत्वात् । न हि यो यस्य न विषयः स तेन साधयितुं शक्यते । तत्साधने हि स एव तस्य विषयः स्यात् साध्यलक्षणत्वाद्विषयस्य । तन्नास्यानुमानस्य सर्वप्रत्ययालम्बनत्वे तदनालम्बनत्वे वा प्रवृत्तिः । अपि च निरालम्बनाः प्रत्यया इत्यत्र न किञ्चित्प्रत्ययानामालम्बनमस्तीति १० साध्यार्थो विवक्षितः किं वा बाह्यमालम्बनं नास्तीति यद्वा यथाप्रतिभातोऽर्थो नालम्बनमिति । आद्यपक्षे पटादिपदार्थवरोधमात्रस्याप्यसिद्धेरस्तंगतं जगत्स्यात् । द्वितीयपक्षे त्वात्गख्यातिप्रतिक्षेप एव विसर्जनम् । अथ यथाप्रतिभातार्थानालम्बनत्वं निरालम्बनत्वं उच्यते । एवं तर्हि बोधावभासिनोऽपि प्रत्ययस्य तदालम्बनत्वं न स्यात् । ततश्च १५ बाह्यार्थवत् बोधस्याप्यसिद्धिरिति समायातमान्ध्यमशेषस्य जगतः । अथ स्वप्ने बाह्यत्वेन प्रतीतस्यार्थस्य प्राप्त्यनुपलम्भेनासत्त्वसिद्धेः । तत्प्रतिभासस्य निरालम्बनत्वसिद्धौ तत्समानरूपोपलक्षणात्सर्वप्रत्ययानां निरालम्बनत्वसिद्धिः। तदपि नोपपन्नम् । समानरूपोपलक्षणासिद्धेः । सर्वत्रार्थापातौ हि समानरूपत्वं सिद्धयति । यदा तु क्वचिदर्थः २० प्राप्यते तदा कुतः समानरूपत्वम् । अथ नैव कचिदर्थप्राप्तिरिति । कुत एतन्निरणायि अर्थाभावादिति चेत् । कुतस्तदभावसिद्धिः । तदुपस्थापकत्वाभिमतप्रत्ययानां निरालम्बनत्वादिति चेत् । न । परस्पराश्रयप्रसक्तेः । अर्थाभावसिद्धौ हि निरालम्बनत्वसिद्धिस्तत्सिद्धौ चार्थाभावसिद्धिरिति । प्रत्यक्षवाधितत्वं चात्र पक्षे दोषः । जाग्रत्प्रत्य- २५ यानां स्वरूपव्यतिरिक्तभावाद्यर्थकुम्भाद्यर्थसामर्थ्ये द्योतकत्वेन सालम्ब "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy