SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ૨૮૪ प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ ज्ञानगतानां नीलाद्याकाराणां स्वरूपानुभवलक्षणार्थक्रियाकारित्वात्सत्त्वसिद्धौ तदुपेतस्य ज्ञानस्य चित्राकारतासिद्धिः प्रसज्यते । न हि निराकारस्य मध्यमक्षणरूपसंविन्मात्रस्य कदाचिदप्यनुभवोऽस्ति । किं च संविन्नीलाद्याकारयोरेकानेकस्वभावयोः प्रतिभासाविशेषेऽपि कुतः सत्येतरत्वप्रविभागः । एकाकारस्यानेकाकारेण विरोधादनेकाकारस्यासत्यत्वे कथमेकाकारस्यासत्यस्य प्रतीतिरितरत्राप्येकाकारस्यैवासत्यत्वं किन्न भवेत् । यथा चाने काकारस्यैकाकारादभेदेऽनेकत्वं विरुद्धयते भेदे तु संवेदनान्तरत्वमनुषज्यते तथैकाकारस्याप्यनेका कारादभेदे एकत्वं विरुद्धयते भेदे तु संवेदनान्तरत्वमनुषज्यत इति । १० एतेन नीलाद्याकाराणां हि तस्मादभेदो भेदो वा भवेदित्यादि प्रागुक्तं प्रत्युक्तमवगन्तव्यम् । . एवं च दुर्दर्शनपक्षपाती भिक्षुर्विलक्षः कथमेष न स्यात् । प्रेक्षावतां सम्प्रति यत्समक्षं परीक्ष्य सिद्धिं गमितोऽयमर्थः ॥ १७४ ।। यदपि ये प्रत्ययास्ते निरालम्बना इत्याद्यनुमानमवादि । तदप्य१५ वद्यम् । यतस्तवायं वाक्योपन्यास एव न प्राप्नोति । परप्रत्यायनाथ हीदं वाक्यं भवता साधनत्वेनोपन्यस्तं न च भवतः परावबोधोऽस्ति । सत्त्वे वा परावबोधस्यैव सालम्बनत्वात् । तेनैवानेकान्तः साधनस्य । पराप्रतिपत्तौ च कथं तद्गतसर्वप्रत्ययानां प्रत्ययत्वं गृह्यते, नागृहीतपक्षधर्मत्वे हेतुर्गमक इति च भवतामेवोद्गारः । तथायमनुमानप्रत्ययः समस्तं विवादास्पदतयालम्बनीकरोति न वा । यदि करोति, तदा तेनैव व्यभिचारी हेतुः । तस्य प्रत्ययत्वेऽपि सालम्बनत्यादिति कथं सर्वविवादापन्नप्रत्ययानामनालम्बनत्वसिद्धिः । अथ न करोति । तदापि कथं तेषां तत्सिद्धिरनुमानाविषयत्वादिति विस्तरतटीकराल शाईलान्तरालवर्तिनस्ते कुतः कुशलम् । निरालम्बनस्यैवाम्य प्रमाण२५ त्वाभ्युपगमादयमदोष इति चेत् । तदमनोज्ञम् । निरालम्बनस्य प्रमा १'च' इत्यधिकं प. म. पुस्तकयोः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy