SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ परि. १ सू० १६ ] स्याद्वादरत्नाकरसहितः भो भोः तर्कवितर्कणैकरसिकाः सर्वैरपि श्रूयतातन्माध्यमिकस्य निर्मठतमप्रज्ञासमुज्जृम्भितम् । विश्वस्यानुभवं विहाय कुरुते यत्तर्जनीस्फोटनैमुग्धानां मतिमोहनैरभिनवां तत्त्वव्यवस्थामयम् ॥ १७२॥ तथाहि यत्तावदुक्तं चित्रज्ञाने नीलाद्याकारप्रतिभासस्याविद्याशिल्पिकल्पितत्वादतात्त्विकत्वमित्यादि । तत्र यद्याकारशब्देन सारूप्यमभिधीयते । तदा तदतात्त्विकत्वमभिधीयमानं न नः प्रतिकूलम् । अथार्थग्रहणपरिणामः, तदा कुतोऽयं नीलाद्याकारप्रतिभासोऽविद्यानिबन्धनः, किं बाध्यमानत्वात् गोचरस्यार्थक्रियाकारित्वाभावाद्वा । आद्यविकल्पे न सर्वत्र नीलाद्याकारप्रतिभासस्याविद्यानिबन्धनत्वासिद्धिः । १० यत्र ह्यसौ बाध्यमानस्तत्रैवाविद्यानिबन्धनः स्यात् । यथा मरुस्थल - प्रतिफलितेषु भास्करकिरणेषु पयः प्रतिभासो न पुनः सत्ये पयसि । किञ्चात्र बाधकं येन बाध्यमानत्वान्नीलाद्याकारप्रतिभासस्याविद्यानिबन्धनत्वमभिधीयते । मध्यमक्षणस्वरूपं संन्विन्मात्रं चेत् । कुतस्तसिद्धिः । नीलाद्याकारप्रतिभासानामवास्तवत्वाच्चेत् तर्हि चक्रकम् । १५ नीलाद्याकारप्रतिभासानामवास्तवत्वासिद्धौ हि मध्यमक्षणस्वरूप संविमात्र सिद्धिस्तत्सिद्धौ चाविद्यानिबन्धनत्वसिद्धिस्तत्सिद्धौ चावास्तवत्वसिद्धिरिति । तद्गोचरस्यार्थक्रियाकारित्वाभावपक्षस्त्वसिद्धो नीलादेस्तद्गोचरस्य लोचनानन्दाद्यर्थक्रिया विधायितयाऽतिप्रतीतत्वात् । तथाहि- जनयति जनतायाश्चक्षुषां हर्षलक्ष्मीं ૧૮૨ किमपि किल कलापः केकिना दृश्यमानः । अयि यदि तदबुद्धे नेयमर्थक्रियास्था ननु कथय किमन्यत्तर्हि तस्याः स्वरूपम् ॥ १७३ ॥ अथ स्वरूपानुभवनमर्थक्रिया एनां चाकुर्वतो बाह्यस्य नीलादेरसत्त्वात्तद्गोचरप्रतिभासानाम विद्यानिबन्धनत्वमिति चेत् । एवं तर्हि २५ " Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy