________________
१८२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. १ सू. १६ इति । एतेन भावानां स्थितिभङ्गावपि प्रत्याख्यातौ । तयोरपि स्वतः परतो वेत्यादिप्राक्तनन्यायेन सद्भावस्वीकारे कारणनैरपेक्ष्येण तिष्ठतां विनश्यतां च भावानां देशादिनियमाभावप्रसङ्गः इत्यादेः प्राक्तन
दूषणस्य समानत्वात् । ततः शुक्तिकाशकलादौ कलधौतादिप्रती५ तिवत्पदार्थेषूत्पादस्थितिमङ्गप्रतीतिर्धान्तिरेव । उक्तं च
" या माया यथा स्वमो गन्धर्वनगरं यथा । तथोत्पादस्तथा स्थानं तथा भङ्ग उदाहृतः ॥ १॥” इति ।
यद्येवमसतां कथं तेषां प्रतिभास इति चेत् । अनाधविद्यावासनाअसतां वस्तूनामविद्याप्रभा-प्रभावात् । करितुरगादीनामसतां मन्त्राद्युपप्लव१० वात्प्रतिभास इति मतस्य सामर्थ्यान्मृच्छकलादौ केषांचित्प्रतिभासवत् ।
खण्डनम् ।
पदाह ।
“ मन्त्रायुपप्लुताक्षाणां यथा मृच्छकलादयः ।
अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥१॥” इति ।
ग्राह्यग्राहकभावादिव्यवहारोऽप्यविद्यानिर्मित एव । बुद्धयात्मन्य१५ विपर्यासितदर्शनानां प्रतिपतॄणां तथाप्रतिभासाभावात् । तदुक्तं
“ अविभागोऽपि बुद्धचात्मा विपर्यासितदर्शने । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ १॥” इति । खरतरदिनकरकरनिकरसंम्पर्कतस्तुषारनिकुरम्बस्येव तत्त्वज्ञानतः समस्ताविद्या विलासस्य विलये तु ग्राह्यग्राहकभावाद्यखिलधर्मविकलं २. संवित्स्वरूपमात्रमवैभासते । तदाह । “नान्योऽनुभाव्यो बुद्धयास्ति"
इत्यादि । प्रकाशमाना स्वयमेव तस्मादाकारकालुष्यपराङ्मुखीयम् । स्वस्थैव संविद्वत तत्त्वमास्तां मायोपमानं हि समग्रमन्यत् ॥१७१॥
१ माध्य. का. ४. २ 'आभासते' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"