SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ परि. १ सू. १६] स्याद्वादरत्नाकरसहितः सर्वधर्मनिरात्मता शून्यता च प्रोच्यते । तदाह । “ मध्यमा प्रतिपत्सव सर्वधर्मनिरात्मता । भूतकोटिश्च सैवेयं मध्यता सैव शून्यता” इति । सर्वधर्मराहितता च शून्यताऽपरपर्यायाऽर्थानामेकानेकस्वरूपविचारासहत्वात्सिद्धा । आत्मादिपदार्थानां छेकरूपतयोपगतानां क्रमवद्विज्ञानादिकार्योपयोगित्वाभ्युपगमे तावद्वा भेदप्रसङ्गात् ५ नैकरूपतावतिष्ठते । अनेकरूपता तु नित्यैकरूपतयोपगतत्वात् नितरां नावतिष्ठते । अत: यथा जराजर्जरपञ्जरााण क्षणेन नश्यन्ति दृढप्रहारात् । द्रुतं तथैते विशरारुभावं भजन्ति भावा अपि सद्विचारात् ॥१७॥ इति सिद्धं तेषां तद्विचारासहत्वम् । यथोक्तम् । भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥ १ ॥ तदेतनूनमायातं यद्वदन्ति विपश्चितः ॥ यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥२॥" इति । उत्पादादिधर्मरहिताश्चैते तद्रूपतयाऽपि विचारासहत्वाविशे- १५ षात् । तथाहि भावाः स्वतः परतः उभाभ्यां अनिमित्ता वा समुत्पद्यन्ते । न तावत् स्वतः । कारणनैरपेक्ष्येणोत्पद्यमानानां तेषां देशादिनियमाभावग्रसक्तेः । परतोऽपि सतामसतां सदसदूपाणां वा भावानामुत्पत्तिर्भवेत् । न तावत् सताम् , कारणवत्तथाविधानामुत्पत्तिविरोधात् । नाप्यसताम्, खपुष्पवत्तेषामप्युत्पत्त्ययोगात् । नापि २० सदसद्रूपाणाम् । सदसद्रूपताया एकत्र विरोधात् । नाप्युभाभ्यामेषामुत्पत्तिः । उभयदोषानुषङ्गात् । अहेतुका तूत्पत्तिर्न केनचिदिष्टा । तदुक्तम् -- " न स्वतो नापि परतो न द्वाभ्यां नाप्यहेतुतः।। उत्पन्ना जातु विद्यन्ते भावाः क्वचन केचन ॥ १॥” २५ १ आदिशब्दात् व्ययध्रौव्ययोर्ग्रहणम् । २ माध्य. का. ४ ।। "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy