________________
प्रमाणनयतत्त्ववालोकालङ्कारः
[ परि. १ सू. १६
तेऽपि प्रतिभासन्ते तर्हि तेषां संवेदनान्तरत्वापत्तिः । ततः कथं ज्ञान
स्यैकस्य चित्रता स्यात् । तदुक्तम् ।
" किं स्यात्सा चित्रतैकस्यां न स्यात्तस्यां मतावपि । यदीदं स्वयमर्थानां रोचते तत्र के वयम् ॥ १ ॥ "
अत्र देवेन्द्रव्याख्या । यदि नामैकस्यां मेतौ न सा चित्रता भावतः स्यात् । किं स्यात् को दोषः स्यात् । तथा च भावतश्चित्रया मत्या भावा अपि चित्राः सिद्धयन्ति । तद्वदेव च सत्या भविष्यन्तीति प्रष्टुरभिप्रायः । शास्त्रकार आह न स्यात्तस्यां मतावपि इति । व्याहतमेतत् एका चित्रा चेति । एकत्वे हि सत्यनानारूपापि वस्तुतो १० नानाकारतया प्रत्यवभासते न पुनर्भावतस्ते तस्या आकाराः सन्तीति बलादेष्टव्यम् । एकत्वहानिप्रसङ्गात् । न हि नानात्वैकत्वयोः स्थितेरन्यः कश्चिदाश्रयोऽन्यत्र भाविकाभ्यामाकारभेदाभेदाभ्याम् । तत्र यदि बुद्धिर्भावितो नानाकारैका चेप्यते तदा सकलं विश्वमप्येकं द्रव्यं स्यात् । तथा च सहोत्पत्त्यादिदोषः । तस्मान्नैकानेकाकारा | किन्तु १५ यदीदं स्वयमर्थानां रोचतेऽतद्रूपाणामपि सतां यदेतत्ताद्रव्येण प्रख्यानं तदेतद्वस्तुत एव स्थितं तत्त्वमिति । तत्र के वयं निषेद्धार एवमस्त्वित्यनुमन्यन्त इति । न च ज्ञाने चित्ररूपताया अपाये तत्स्वरूपप्रतिपत्तिविरुद्धयते । तदुपायेऽपि स्वरूपस्य स्वतो गतेरुपपत्तेः । संवेदनमात्रतापाय एव तद्विरोधात् । न चानेकत्वप्रतिभास: संवेदने तात्त्विका२० नेकत्वे सत्येवोपपद्यत इति प्रेर्यम् । स्वमदशायां तदभावेऽपि तदर्शनात् । अतः संवेदनमात्रमेवालम्बनप्रत्ययरहितं तत्त्वम् । प्रयोगश्च । ये प्रत्ययास्ते निरालम्बना यथा स्वमप्रत्ययाः प्रत्ययाश्च विवादापन्नाः । न चालम्बनीभूतार्थप्रसाधकं किंचित्प्रमाणमस्ति । यतस्तद्वाध्यत्वमत्र पक्षस्य स्यात् । मध्यमक्षणस्वरूप संविद्व्यतिरिक्तेऽर्थे समकालस्य भिन्नकालस्य वा तस्य २५ प्रवृत्त्यनुपपत्तेः । ततः सैव परमार्थसती मध्यमा
प्रतिपत्तिः
१' मतौ ' इत्यतः ' तस्यां ' इति यावत् भ. पुस्तके नास्ति ।
છૂટય
"Aho Shrut Gyanam"