SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९७ परि. १ सू. १६] स्याद्वादरत्नाकरसहितः विशिष्टा प्रतिपादकत्वमुपकल्पयेत् । प्रतिपाद्यस्य चांऽविद्या प्रतिपाद्यत्वोपकल्पनपरा प्रतिपादकादेरविशिष्टा प्रतिपाद्यत्वं परिकल्पयेत् । प्रतिपादकादीनामभेदात्तदविद्यानामप्यभेदात् । भेदे वा प्रतिपादकादीनां भेदसिद्धिर्विरुद्धधर्माध्यासात् । अनाद्यविद्योपकल्पित एव तदविद्यानां भेदो न पारमार्थिक इति चेत् परमार्थतस्तह्मभिन्नास्तदविद्या इति स ५ एव प्रतिपादकादीनां सङ्करप्रसङ्गः । यदि पुनरविद्यापि प्रतिपादकादीनामविद्योपकल्पितत्वादेव न भेदाभेदविकल्पसहा नीरूपत्वादिति मतम् । तदा परमार्थपथावतारिणः प्रतिपादकादय इति बलादीर्यते । तदविद्यानामविद्योपकल्पितत्वे विद्यात्वविधैरवश्यंभावित्वात् । तथा च प्रतिपादकादिभ्यो भिन्नमागमवाक्यं लिङ्गं च सकृत्प्रतिपादकादिसंवेद्य- १० त्वान्यथानुपपत्तेरित्यचित्स्वभावं तत्सिद्ध बहिर्वस्तु तद्वत् घटादिवस्तुसिद्धिरिति न प्रतिभासाद्वैतव्यवस्था प्रतिभास्यस्यापि सुप्रसिद्धत्वात् । प्रतिभास्यसमानाधिकरणता पुनः प्रतिभासस्य कथंचिद्भेदेऽपि न विरुद्धयते । घटः प्रतिभासत इति प्रतिभासविषयो भवतीत्युच्यते 'विषयविषयिणोरभेदोपचारात् । प्रस्थप्रमितं धान्यं प्रस्थ इति यथा । १५ ततः सामानाधिकरण्यादुपचरितान्नानुपचारितैकत्वसिद्धिः । मुख्य सामानाधिकरण्यं क सिद्धमिति चेत्, संवेदनं प्रतिभास इत्यत्र । वैयधिकरण्यव्यवहारस्तु गौणस्तत्र संवेदनस्य प्रतिभासनमिति । घटस्य प्रतिभासनमित्यत्र तस्य मुख्यत्वप्रसिद्धेः । किंच कथञ्चिद्भेदमन्तरेण सामानाधिकरण्यस्यानुपपत्तेस्तत एव कथंचिद्भेदस्य सिद्धिः । शुक्ल: २० पट इत्यत्र सर्वथा शुक्लपटयोरैक्ये हि न समानाधिकरणता । पटः पट इति यथा । नापि तयोः सर्वथा भेदे रत्नसानुरत्नाकरवदिति । • यच्चोक्तम् । तदेव च परमात्मरूपं सकललोकसर्गस्थितिप्रलयहेतुपरब्रह्मणः सकललोकसर्ग- रिति । तदप्याकाशचर्वणप्रायम् । अद्वैतैकान्ते प्रलयहेतुत्वमित्यद्वैतवादि- कार्यकारणभावविरोधात् । तस्य द्वैताविनाभा- २५ वेदान्तिमतस्य निरा- वित्वात । किंच । करणम् । १ वा' इति प. म. पुस्तकयोः पाठः । "Aho Shrut Gyanam"
SR No.009662
Book TitleSyadvada Ratnakar Part 1
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages274
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy