________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. १ सू. १६ ब्रह्मात्मा विदधाति चेद्वयसनतश्चित्रां त्रिलोकीमिमां
मुग्ध ब्रूहि तदा भवेत् कथमयं प्रेक्षावतामग्रणीः । प्रेक्षावान् जगति प्रयोजनलवं कंचित्परित्यज्य भोः कोऽपि वापि कदाचनाऽपि कुरुते किं नाम काञ्चित् क्रियाम्॥१९५।। अथापि निष्कम्पकृपापरीतः परोपकाराय करोत्ययं तान् । नैतद्धटामेति यदस्य कश्चित् कारुण्यपात्रं न परः समस्ति ॥१९६॥ सत्त्वे वा न कथञ्चनापि नरककोडेषु कुर्याजना
नित्यं वैतरणीतरङ्गतरणच्यापारपीडाजडान् । कान्ताकुङ्कुमपङ्कपङ्कजरजोज्योत्स्नाच्छवायुच्छटा
ताम्बूलाग्रुपभोगतः प्रमुदितान् किं तर्हि निर्मापयेत् ॥१९७॥ सृष्टेः प्रागनुकम्पनीयजनता नास्तीति तस्यां कथं
कारुण्यं किल कल्प्य तस्य जगतः स्रष्टा भवेद्यद्वशात् । कारुण्यात्कुरुते प्रवृत्तिमिति च प्रख्याप्यमाने त्वया
कुर्यान्नो सुखिनां मृति बत तथा नो दुःखितानां स्थितिम् ॥ १९८ ॥ अथापि कायमपेक्षमाणः करोति दुःखं जगतः सुखं वा । इमं विमुञ्चाग्रहमेवमस्थ स्वतन्त्रतायाः प्रलयप्रसक्तेः ॥ १९९ ॥
किं च--- दुःखश्रेणीकरणनिपुणप्राणिकर्मव्यपेक्षा __ युक्ता नैव प्रगुणकरुणा सान्द्रचित्तस्य तस्य । औदासीन्यं किमपि कुरुतां किन्तु तत्र प्रवादिन
ब्रह्मात्मायं कथमपरथा स्यात्कृपालुः कथञ्चित् ॥२०॥ यतो महान्तः करुणासमुद्राः परेषु कांक्षन्ति न दुःखहेतून् । तेषां सदा दुःखितजन्तुदुःखतद्धेतुविध्वंसधिया प्रवृत्तेः ॥ २०१॥ तथा समर्थः स्वयमेव चेत्स्यात्परानपेक्षेत कथं कदाचित् । अथासमर्थः स्वयमेव चेत्स्यात्परानपेक्षेत कथं कदाचित् ।।२०२॥
२०
"Aho Shrut Gyanam"