Book Title: Suktiratnakosa
Author(s): Lakshman, Nilanjana Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 21
________________ ४ लक्ष्मणकृतः 31 स्तोतुमेककविं न श्रीवाल्मीकिमृषयो विदुः। द्वितीयो यस्य नास्त्येव स कथं प्रथमः कविः ।। 32 स एव पदविन्यासस्ता एवाक्षरपङ्क्तयः । वक्त्रे वक्त्रे मनुष्याणां क्वापि क्वापि विदग्धता ॥५ सुभाषितरसास्वादबद्धरोमाञ्चकन्चुकाः । विनापि कामिनीसङ्ग कवयः सुखमासते ॥६ 34 लचिताः कवयः स्थाने पदन्यासमुरारिणा । पुराप्येष त्रिपद्यापि त्रिलोकोमप्यऽलइयत् ॥७ 35 जीयाद्यसुधाधुन्याः सुबन्धुप्रभवाचलः । यद्भङ्गरलेषमासाद्य भङ्गः कविभिराश्रितः ।।८ 36 माहतप्रतिभाः केचित् केचिदाहतनिष्प्रभाः । घटदीपनिभाः केचित् केचित् ग्रन्थानुसारिणः ॥९ 37 कवयः कालिदासाचाः कवयो वयमप्यमी । मेरौ च परमाणौ च पदार्थत्वव्यवस्थितिः ॥ १० 38 कवीनामगलइपों नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ।।११ हर्षचरित,१.११] 39 निश्वासोऽपि न निर्याति वाणे हृदयवर्तिनि । किं पुनर्विकटाटोपपदबन्धा सरस्वती ॥ १२ 40 सन्ति श्वान इवाङ्सख्या जातिभाजो गृहे गृहे ।। उत्पादका न बहवः कवयः सरभा इव ।।१३ हर्षचरित, १.५] . 41 उच्छवासान्तेऽप्यऽखिन्नास्ते येषां वक्त्रे सरस्वती । कथमाख्यायिकाकारा न ते वन्द्याः कवोश्वराः ॥१४ [हर्षचरित,१.१०] अथ काव्यम् । 42 लक्ष्मीः सुवर्णरूपापि पाणिपादेऽवलम्बते । भूषयत्यन्तरात्मानं वर्णरूपापि भारती ॥१ 32. ख. 'विदग्धताः'। 35. प. 'सुबन्धुः प्रभवाचल:'। 33. 'शक्त्या कर्णस्य लग्ना यथा' इति प.प्रतौ टिप्पणी। 40. 'चुल्ली' इति प.प्रतौ टिप्पणी । 41 'हर्षाख्यायिकादि' इति प.प्रतौ टिप्पणी । 42 ख.प्रतौ विलम्बते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90