Book Title: Suktiratnakosa Author(s): Lakshman, Nilanjana Shah Publisher: L D Indology AhmedabadPage 34
________________ सूक्तिरत्नकोषः 184 एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिम् । तळ्यास्त्रिवलिबन्धेऽपि सैव मध्यस्य नम्रता ॥४ 185 एक एव बलिर्बद्धो वामनीभूय विष्णुना ।। लोलयैव त्वया तन्वि मन्ये बद्धं वलित्रयम् ॥५ 186 दृशा दग्धं मनसिजं जीवन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥ [विद्धशालभञ्जिका १,३] 187 नासोत् नास्ति न वा नारी भविष्यत्यनया समा। इति रेखात्रयं वेधावक्रेऽस्या स्त्रिवलिच्छलात् ॥७ 188 अमृतस्येव कुण्डानि सुखानामिव राशयः । रतेरिव निधानानि योषितः केन निर्मिताः ॥८ [भर्तृहार. सु. सं, ७.३] 189 मनः प्रहादयन्तीभिर्मदं यान्त भिरप्यलम् । महान्तोऽपि प्रपद्यन्ते स्त्रीभिरद्भिरिवाचलाः ॥९ 190 अस्या मनोहराकारकबरीभारनिर्मि(?जि)ताः । लजयेव वने वासं चक्रुश्चमर बहिणः ॥१० 191 बाले ललामलेखेयं भाले भल्लीव राजते । भ्रलताचापमाकृष्य न जाने के हनिष्यसि ॥११ 192 यतो यतः क्षिपत्यक्षि क्षिप्रमायतलोचना । ततस्ततः प्रक्षिपति पञ्च पञ्चशरः शरान् ॥१२ 193 नपुंसकमिति ज्ञात्वा त्वां प्रति प्रहितं मनः । तत्त तत्रैव रमते (?ह)ताः पाणिनिना वयम् ।।९३ 194 सह प्रयातं लोलाक्ष्या मनो यन्न निवर्तते । तत्प्रवृत्तिमिवान्वेष्टुं दृष्टिस्तत्रैव धावति ॥१४ 195 इदं रम्यमिदं रम्यमित्यावसथवृत्तया(ये?) । तस्या भ्रमति सर्वाङ्गं मन्ये मूढ इव स्मरः ॥१५ 186. ख. चारुलोचना: । 187. ख. प्रतौ श्लोकोऽयं 'हारोऽयं (१८३) इति प्रलोकानन्तरं दश्यते । 188 'रते रेव' (188) इत्यत आरभ्य 225 तम लोकान्तर्गत 'पुरः सखीजन' इति पर्यन्तः सन्दर्भः पत्रचतुष्क(२०त: २३)त्रुटेनोपलभ्यते प प्रतौ ॥ 19३ ख प्रतौ 'प्रति'शब्दः नष्टः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90