________________
सूक्तिरत्नकोषः
184 एकमेव बलिं बद्ध्वा जगाम हरिरुन्नतिम् ।
तळ्यास्त्रिवलिबन्धेऽपि सैव मध्यस्य नम्रता ॥४ 185 एक एव बलिर्बद्धो वामनीभूय विष्णुना ।।
लोलयैव त्वया तन्वि मन्ये बद्धं वलित्रयम् ॥५ 186 दृशा दग्धं मनसिजं जीवन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥
[विद्धशालभञ्जिका १,३] 187 नासोत् नास्ति न वा नारी भविष्यत्यनया समा।
इति रेखात्रयं वेधावक्रेऽस्या स्त्रिवलिच्छलात् ॥७ 188 अमृतस्येव कुण्डानि सुखानामिव राशयः । रतेरिव निधानानि योषितः केन निर्मिताः ॥८
[भर्तृहार. सु. सं, ७.३] 189 मनः प्रहादयन्तीभिर्मदं यान्त भिरप्यलम् ।
महान्तोऽपि प्रपद्यन्ते स्त्रीभिरद्भिरिवाचलाः ॥९ 190 अस्या मनोहराकारकबरीभारनिर्मि(?जि)ताः ।
लजयेव वने वासं चक्रुश्चमर बहिणः ॥१० 191 बाले ललामलेखेयं भाले भल्लीव राजते ।
भ्रलताचापमाकृष्य न जाने के हनिष्यसि ॥११ 192 यतो यतः क्षिपत्यक्षि क्षिप्रमायतलोचना ।
ततस्ततः प्रक्षिपति पञ्च पञ्चशरः शरान् ॥१२ 193 नपुंसकमिति ज्ञात्वा त्वां प्रति प्रहितं मनः ।
तत्त तत्रैव रमते (?ह)ताः पाणिनिना वयम् ।।९३ 194 सह प्रयातं लोलाक्ष्या मनो यन्न निवर्तते ।
तत्प्रवृत्तिमिवान्वेष्टुं दृष्टिस्तत्रैव धावति ॥१४ 195 इदं रम्यमिदं रम्यमित्यावसथवृत्तया(ये?) ।
तस्या भ्रमति सर्वाङ्गं मन्ये मूढ इव स्मरः ॥१५ 186. ख. चारुलोचना: । 187. ख. प्रतौ श्लोकोऽयं 'हारोऽयं (१८३) इति प्रलोकानन्तरं दश्यते । 188 'रते रेव' (188) इत्यत आरभ्य 225 तम लोकान्तर्गत 'पुरः सखीजन' इति पर्यन्तः सन्दर्भः पत्रचतुष्क(२०त: २३)त्रुटेनोपलभ्यते प प्रतौ ॥ 19३ ख प्रतौ 'प्रति'शब्दः नष्टः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org