________________
लक्ष्मणकृतः
196 नई तदीये संतापं यजनस्यानुरागिणः । __जनयांचक्रतुस्तीवं तत्र हेतुर्विलोमता ॥१६ 197 तत्त्रिविष्टपमाख्यातं तन्वङ्गया यदलित्रयम् ।
यत्रानिमेषदृष्टित्वं नृणामप्युपजायते ।।१७ 198 यन्न माति तदङ्गेषु लावण्यमिति संभृतम् ।
पिण्डीकृतमुरोदेशे तत्पयोधरतां गतम् ॥१८ 199 हाराय गुणिने स्थानं न दत्तमिति लज्जया ।
तन्वङ्गयाः कुचयुग्मेन मुखेन प्रकटोकृतम् ॥१९ 200 उन्नतः प्रोल्लसद्धारः कालागुरुमलीमसः ।
पयोधरभरस्तन्न्याः कं न चक्रेऽभिलाषिणम् ॥२० 201 भूर्भुवःस्वर्विभूतीनां सौभाग्यं यत्प्रसादतः ।
ताभ्यः सकर्णः को नाम कामिनीभ्यः पराङ्मुखः ॥२१ 202 विधायापूर्वपूर्णेन्दुमस्या मुखमभूध्रुवम् । धाता निजासनाम्भोजविनिमीलनदुःस्थितः ॥२२
[ रत्नावली, २,८] 203 स्त्रीति नामातिमधुरं कुर्यात्कं न स्मरातुरम् ।
किमुतौदार्यचातुर्यप्रसादमधुरं वचः ॥२३ 204 अकृत्रिमप्रेमरसा विलासालसगामिनी ।
असारे दग्धसंसारे सारं सारङ्गलोचना ॥२४ 205 अभ्यासः कर्मणां नित्यमुत्पादयति कौशलम् ।
विधिना तावदभ्यस्तं सृष्टा यावन्मृगेक्षणा ॥२५ 206 अस्याः कान्तस्य रूपस्य सौपम्यातिशायिनः ।
गच्छेदेकैव सादृश्यं स्वच्छाया दर्पणाश्रिता ॥२६ 207 मारयन्त्या जनं तस्या निरागस वज्ञया ।
मातङ्गानां गमिर्यादृक् तादृगासीदसंशयम् ॥२७ 208 धाता यदि न चक्षुष्का केनेयं निर्मितेदशा ।
अथ चेद् दृ . स यस्य को हे तरपग्रहे ॥२८ 209 तस्या बापि हारेण निसर्गादेव हरिणौ ।
जनयामासतुः कस्य विस्मयं न पयोधरौ ॥२९ 210 कि चित्रमुन्नतश्रीको यत्प्रियायाः पयोधरी ।
तस्या हृदयलाभेन जायते कस्य नोन्नतिः ॥३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org